ऋग्वेद - मण्डल 9/ सूक्त 83/ मन्त्र 2
तपो॑ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोच॑न्तो अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् । अव॑न्त्यस्य पवी॒तार॑मा॒शवो॑ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठन्ति॒ चेत॑सा ॥
स्वर सहित पद पाठतपोः॑ । प॒वित्र॑म् । विऽत॑तम् । दि॒वः । प॒दे । शोच॑न्तः । अ॒स्य॒ । तन्त॑वः । वि । अ॒स्थि॒र॒न् । अव॑न्ति । अ॒स्य॒ । प॒वी॒तार॑म् । आ॒ऽशवः॑ । दि॒वः । पृ॒ष्थम् । अधि॑ । ति॒ष्ठ॒न्ति॒ । चेत॑सा ॥
स्वर रहित मन्त्र
तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन् । अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा ॥
स्वर रहित पद पाठतपोः । पवित्रम् । विऽततम् । दिवः । पदे । शोचन्तः । अस्य । तन्तवः । वि । अस्थिरन् । अवन्ति । अस्य । पवीतारम् । आऽशवः । दिवः । पृष्थम् । अधि । तिष्ठन्ति । चेतसा ॥ ९.८३.२
ऋग्वेद - मण्डल » 9; सूक्त » 83; मन्त्र » 2
अष्टक » 7; अध्याय » 3; वर्ग » 8; मन्त्र » 2
अष्टक » 7; अध्याय » 3; वर्ग » 8; मन्त्र » 2
पदार्थः -
हे जगदीश्वर ! (दिवस्पदे) द्युलोके भवतः (तपोः) तपः कर्म (पवित्रम्) पूतं (विततम्) विस्तृतं पदं विराजते। (अस्य) तस्य पदस्य (शोचन्तः) दीप्तिशालिनः (तन्तवः) किरणाः (व्यस्थिरन्) स्थिराः सन्ति। (अस्य) अमुष्य पदस्य (पवितारम्) उपासकम् (आशवः) अस्य पदस्यानन्दं (अवन्ति) रक्षन्ति। उक्तपदोपासकाः (दिवस्पृष्ठमधि) द्युलोकशिखरे (चेतसा) स्वबुद्धिबलेन (तिष्ठन्ति) निवसन्ति ॥२॥