ऋग्वेद - मण्डल 9/ सूक्त 83/ मन्त्र 3
अरू॑रुचदु॒षस॒: पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः । मा॒या॒विनो॑ ममिरे अस्य मा॒यया॑ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥
स्वर सहित पद पाठअरू॑रुचत् । उ॒षसः॑ । पृश्निः॑ । अ॒ग्रि॒यः । उ॒क्षा । बि॒भ॒र्ति॒ । भुव॑नानि । वा॒ज॒ऽयुः । मा॒या॒ऽविनः॑ । म॒मि॒रे॒ । अ॒स्य॒ । मा॒यया॑ । नृ॒ऽचक्ष॑सः । पि॒तरः॑ । गर्भ॑म् । आ । द॒धुः॒ ॥
स्वर रहित मन्त्र
अरूरुचदुषस: पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः । मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥
स्वर रहित पद पाठअरूरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । बिभर्ति । भुवनानि । वाजऽयुः । मायाऽविनः । ममिरे । अस्य । मायया । नृऽचक्षसः । पितरः । गर्भम् । आ । दधुः ॥ ९.८३.३
ऋग्वेद - मण्डल » 9; सूक्त » 83; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 8; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 8; मन्त्र » 3
पदार्थः -
पूर्वोक्तपरमात्मा (उषसः) रवेः प्रभामण्डलं (अरूरुचत्) प्रकाशयते। अथ च प्राश्नुते सर्वमिति (पृश्निः) प्रलयकारकः (उक्षा) उक्षतिती उक्षा इति महन्नामसु पठितम्। नि. ३।१३।३। महान् परमेश्वरः (भुवनानि) सर्वान् लोकान् (बिभर्ति) पुष्णाति। तथा स जगदीश्वरः (वाजयुः) सकलबलाधारोऽस्ति। (अस्य) अमुष्य परमात्मनः (मायया) शक्त्या (मायाविनो ममिरे) मायाविनो म्रियन्ते। (नृचक्षसः) स सर्वज्ञ ईश्वरः (पितरः) सर्वोत्पादकाः (गर्भम्) संसाररूपगर्भमिमं (आदधुः) दधाति ॥३॥