Loading...
ऋग्वेद मण्डल - 9 के सूक्त 83 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 83/ मन्त्र 4
    ऋषिः - पवित्रः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः । गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥

    स्वर सहित पद पाठ

    ग॒न्ध॒र्वः । इ॒त्था । प॒दम् । अ॒स्य॒ । र॒क्ष॒ति॒ । पाति॑ । दे॒वाना॑म् । जनि॑मानि । अद्भु॑तः । गृ॒भ्णाति॑ । रि॒पुम् । नि॒ऽधया॑ । नि॒धाऽप॑तिः । सु॒कृत्ऽत॑माः । मधु॑नः । भ॒क्षम् । आ॒श॒त॒ ॥


    स्वर रहित मन्त्र

    गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः । गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत ॥

    स्वर रहित पद पाठ

    गन्धर्वः । इत्था । पदम् । अस्य । रक्षति । पाति । देवानाम् । जनिमानि । अद्भुतः । गृभ्णाति । रिपुम् । निऽधया । निधाऽपतिः । सुकृत्ऽतमाः । मधुनः । भक्षम् । आशत ॥ ९.८३.४

    ऋग्वेद - मण्डल » 9; सूक्त » 83; मन्त्र » 4
    अष्टक » 7; अध्याय » 3; वर्ग » 8; मन्त्र » 4

    पदार्थः -
    (गन्धर्वः) गां धरतीति गन्धर्वः पृथिव्यादिलोकलोकान्तराणां धारकः (इत्था) अयं सत्यनामसु पठितो निरुक्ते ३।१३।१०। सत्यस्वरूपः परमात्मा (देवानां जनिमानि) विदुषां जन्मानि (रक्षति) गोपायति। स परमेश्वरः (अद्भुतः) महानस्ति अद्भुत इति महन्नामसु पठितं निरुक्ते ३।१३।१३। (निधापतिः) सर्वशक्तीनां स्वामी (निधया) स्वशक्त्या (रिपुम्) स्वानुकूलशक्तिं (गृभ्णाति) स्वाधीनं करोति। (अस्य) अमुष्य (मधुनः) आनन्दमयस्य परमात्मनः (पदम्) पदं (सुकृत्तमाः) सुकृतितराः पुरुषाः (भक्षम्) भोगयोग्यं विधाय (आशत) तिष्ठन्ति। तथा पूर्वोक्तानुपासकान् (पाति) रक्षति ॥४॥

    इस भाष्य को एडिट करें
    Top