ऋग्वेद - मण्डल 9/ सूक्त 84/ मन्त्र 1
ऋषिः - प्रजापतिर्वाच्यः
देवता - पवमानः सोमः
छन्दः - विराड्जगती
स्वरः - निषादः
पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इन्द्रा॑य॒ वरु॑णाय वा॒यवे॑ । कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जन॑म् ॥
स्वर सहित पद पाठपव॑स्व । दे॒व॒ऽमाद॑नः । विऽच॑र्षणिः । अ॒प्साः । इन्द्रा॑य । वरु॑णाय । वा॒यवे॑ । कृ॒धि । नः॒ । अ॒द्य । वरि॑वः । स्व॒स्ति॒ऽमत् । उ॒रु॒ऽक्षि॒तौ । गृ॒णी॒हि॒ । दैव्य॑म् । जन॑म् ॥
स्वर रहित मन्त्र
पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे । कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् ॥
स्वर रहित पद पाठपवस्व । देवऽमादनः । विऽचर्षणिः । अप्साः । इन्द्राय । वरुणाय । वायवे । कृधि । नः । अद्य । वरिवः । स्वस्तिऽमत् । उरुऽक्षितौ । गृणीहि । दैव्यम् । जनम् ॥ ९.८४.१
ऋग्वेद - मण्डल » 9; सूक्त » 84; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 1
पदार्थः -
(देवमादनः) विदुषामामोदकारकपरमात्मन् ! (विचर्षणिरप्साः) कर्मणां द्रष्टा (इन्द्राय) कर्मयोगिने (वरुणाय) विज्ञानिने (वायवे) ज्ञानयोगिने (पवस्व) त्वं पवित्रतां देहि अथ च (नः) अस्मान् (अद्य) अस्मिन् समये (वरिवः) धनिनः (कृधि) कुरु। तथा (स्वस्तिमत्) भवान् स्वकीयेन ज्ञानेन मामविनाशिनं करोतु। अथ च (उरुक्षितौ) विस्तृतेऽस्मिन् भूगर्भे (जनम्) अमुम्पुरुषं (दैव्यम्) दिव्यं विधाय (गृणीहि) अनुगृह्णातु ॥१॥