Loading...
ऋग्वेद मण्डल - 9 के सूक्त 84 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 84/ मन्त्र 2
    ऋषिः - प्रजापतिर्वाच्यः देवता - पवमानः सोमः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोम॒: परि॒ तान्य॑र्षति । कृ॒ण्वन्त्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इन्दु॑: सिषक्त्यु॒षसं॒ न सूर्य॑: ॥

    स्वर सहित पद पाठ

    आ । यः । त॒स्थौ । भुव॑नानि । अम॑र्त्यः । विश्वा॑नि । सोमः॑ । परि॑ । तानि॑ । अ॒र्ष॒ति॒ । कृ॒ण्वन् । स॒म्ऽचृत॑म् । वि॒ऽचृत॑म् । अ॒भिष्ट॑ये । इन्दुः॑ । सि॒स॒क्ति॒ । उ॒षस॑म् । न । सूर्यः॑ ॥


    स्वर रहित मन्त्र

    आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोम: परि तान्यर्षति । कृण्वन्त्संचृतं विचृतमभिष्टय इन्दु: सिषक्त्युषसं न सूर्य: ॥

    स्वर रहित पद पाठ

    आ । यः । तस्थौ । भुवनानि । अमर्त्यः । विश्वानि । सोमः । परि । तानि । अर्षति । कृण्वन् । सम्ऽचृतम् । विऽचृतम् । अभिष्टये । इन्दुः । सिसक्ति । उषसम् । न । सूर्यः ॥ ९.८४.२

    ऋग्वेद - मण्डल » 9; सूक्त » 84; मन्त्र » 2
    अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 2

    पदार्थः -
    (इन्दुः) प्रकाशस्वरूपः परमेश्वरः (सूर्यः) भानुः (उषसं  न) उषा इव (सिषक्ति) संयुनक्ति। अथ च (अभिष्टये) ऐश्वर्याय (सञ्चृतम्) प्रकाशयुतं तथा (विचृतम्) अज्ञानशून्यं (कृण्वन्) कुर्वाणः (आतस्थौ) मम हृदयमागत्य विराजमानो भवतु (यः) यः परमेश्वरः (अमर्त्यः) मरणधर्मरहितोऽस्ति। तथा (विश्वानि भुवनानि) अखिललोकलोकान्तराणां (परि, अर्षति) चतुर्दिक्षु व्यापकोऽस्ति सः (सोमः) सौम्यस्वभावः परमात्मा अस्मान् रक्षतु ॥२॥

    इस भाष्य को एडिट करें
    Top