ऋग्वेद - मण्डल 9/ सूक्त 84/ मन्त्र 3
ऋषिः - प्रजापतिर्वाच्यः
देवता - पवमानः सोमः
छन्दः - विराड्जगती
स्वरः - निषादः
आ यो गोभि॑: सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः । आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो॑ मा॒दय॒न्दैव्यं॒ जन॑म् ॥
स्वर सहित पद पाठआ । यः । गोभिः॑ । सृ॒ज्यते॑ । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒षय॑न् । उप॑ऽवसुः । आ । वि॒ऽद्युता॑ । प॒व॒ते॒ । धार॑या । सु॒तः । इन्द्र॑म् । सोमः॑ । मा॒दय॑न् । दैव्य॑म् । जन॑म् ॥
स्वर रहित मन्त्र
आ यो गोभि: सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः । आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥
स्वर रहित पद पाठआ । यः । गोभिः । सृज्यते । ओषधीषु । आ । देवानाम् । सुम्ने । इषयन् । उपऽवसुः । आ । विऽद्युता । पवते । धारया । सुतः । इन्द्रम् । सोमः । मादयन् । दैव्यम् । जनम् ॥ ९.८४.३
ऋग्वेद - मण्डल » 9; सूक्त » 84; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 3
पदार्थः -
(सोमः) जगदुत्पादको जगदीश्वरः (दैव्यं जनम्) दिव्यगुणं (इन्द्रम्) कर्मयोगिनं (मादयन्) आनन्दयन् (उपावसुः) स्थिरो भवति। (यः) यः परमेश्वरः (गोभिः) पृथिव्यादिसूक्ष्म-पञ्चतन्मात्रमारभ्य (ओषधीषु, आ) ओषधिपर्यन्तं (आसृज्यते) सकलं ब्रह्माण्डं विरचयति। अथ च (देवानाम्) विद्वज्जनानां (सुम्ने) सुखस्य (इषयन्) इच्छां कुर्वन् (विद्युता) विद्युद्रूपशक्त्या सर्वान् पवित्रयति। अथ यः परमेश्वरः (धारया सुतः) स्वयमानन्दमयो वरीवर्ति ॥३॥