ऋग्वेद - मण्डल 9/ सूक्त 84/ मन्त्र 5
ऋषिः - प्रजापतिर्वाच्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अ॒भि त्यं गाव॒: पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणन्ति म॒तिभि॑: स्व॒र्विद॑म् । ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्र॑: क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥
स्वर सहित पद पाठअ॒भि । त्यम् । गावः॑ । पय॑सा । प॒यः॒ऽवृध॑म् । सोम॑म् । श्री॒ण॒न्ति॒ । म॒तिऽभिः॑ । स्वः॒ऽविद॑म् । ध॒न॒म्ऽज॒यः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । विप्रः॑ । क॒विः । काव्ये॑न । स्वः॑ऽचनाः ॥
स्वर रहित मन्त्र
अभि त्यं गाव: पयसा पयोवृधं सोमं श्रीणन्ति मतिभि: स्वर्विदम् । धनंजयः पवते कृत्व्यो रसो विप्र: कविः काव्येना स्वर्चनाः ॥
स्वर रहित पद पाठअभि । त्यम् । गावः । पयसा । पयःऽवृधम् । सोमम् । श्रीणन्ति । मतिऽभिः । स्वःऽविदम् । धनम्ऽजयः । पवते । कृत्व्यः । रसः । विप्रः । कविः । काव्येन । स्वःऽचनाः ॥ ९.८४.५
ऋग्वेद - मण्डल » 9; सूक्त » 84; मन्त्र » 5
अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 5
अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 5
पदार्थः -
हे जगदीश ! (पयोवृधम्) ज्ञानवृद्धो भवान् (त्यम्) तं भवन्तं (गावः) इन्द्रियाणि (पयसा) ज्ञानद्वारा (अभि श्रीणन्ति) संसेवन्ते। अथ च (सोमम्) सौम्यगुणसम्पन्नं भवन्तं (स्वर्विदम्) देवतानां लक्ष्यस्थानीयं त्वां (मतिभिः) ब्रह्मविषयिणीभिर्बुद्धिभिः (पवते) विद्वांसः साक्षात्कुर्वते। भवान् (धनञ्जयः) सकलधनजेतास्ति। तथा (कृत्व्यः) सर्वासां शक्तीनां केन्द्रस्वरूपो भवान् (रसः) आमोदरूपोऽस्ति अथ च (विप्रः) मेधाव्यस्ति। (कविः) सर्वज्ञोऽस्ति। (काव्येन स्वर्चनाः) स्वीयाखिलशक्त्या सर्वलोकलोकान्तराणां प्रलयकर्तास्ति ॥५॥ इति चतुरशीतितमं सूक्तं नवमो वर्गश्च समाप्तः ॥