Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 86/ मन्त्र 46
    ऋषिः - गृत्समदः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    अस॑र्जि स्क॒म्भो दि॒व उद्य॑तो॒ मद॒: परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति । अं॒शुं रि॑हन्ति म॒तय॒: पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो॑ य॒युः ॥

    स्वर सहित पद पाठ

    अस॑र्जि । स्क॒म्भः । दि॒वः । उत्ऽय॑तः । मदः॑ । परि॑ । त्रि॒ऽधातुः । भुव॑नानि । अ॒र्ष॒ति॒ । अं॒शुम् । रि॒ह॒न्ति॒ । म॒तयः॑ । पनि॑प्नतम् । गि॒रा । यदि॑ । निः॒ऽनिज॑म् । ऋ॒ग्मिणः॑ । य॒युः ॥


    स्वर रहित मन्त्र

    असर्जि स्कम्भो दिव उद्यतो मद: परि त्रिधातुर्भुवनान्यर्षति । अंशुं रिहन्ति मतय: पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः ॥

    स्वर रहित पद पाठ

    असर्जि । स्कम्भः । दिवः । उत्ऽयतः । मदः । परि । त्रिऽधातुः । भुवनानि । अर्षति । अंशुम् । रिहन्ति । मतयः । पनिप्नतम् । गिरा । यदि । निःऽनिजम् । ऋग्मिणः । ययुः ॥ ९.८६.४६

    ऋग्वेद - मण्डल » 9; सूक्त » 86; मन्त्र » 46
    अष्टक » 7; अध्याय » 3; वर्ग » 21; मन्त्र » 1

    पदार्थः -
    यः परमात्मा (दिवः, स्कम्भः) द्युलोकस्याधारः अपि च (त्रिधातुः, भुवनानि) प्रकृतेस्त्रयाणां गुणानां कार्य्यभूतो यो लोकस्तं (परि, अर्षति) चालयति अपरञ्च (मदः) आनन्दस्वरूपस्तथा (उद्यतः) स्वसत्तया सदैव जीवितः जागरितश्चास्ति। (असर्जि) तेनेमानि लोकलोकान्तराणि विरचितानि। (अंशुं) तं गतिशीलं परमात्मानं (मतयः) बुद्धिमन्तः (गिरा) वेदवाण्या (रिहन्ति) साक्षात्कुर्वन्ति। कदा ? (यदि) यदा (पनिप्नतं) शब्दायमानं (निर्णिजं) अमुं शुद्धस्वरूपं (ऋग्मिणः) स्तोतारः स्तुत्या (ययुः) प्राप्नुवन्ति ॥४६॥

    इस भाष्य को एडिट करें
    Top