ऋग्वेद - मण्डल 9/ सूक्त 86/ मन्त्र 47
प्र ते॒ धारा॒ अत्यण्वा॑नि मे॒ष्य॑: पुना॒नस्य॑ सं॒यतो॑ यन्ति॒ रंह॑यः । यद्गोभि॑रिन्दो च॒म्वो॑: सम॒ज्यस॒ आ सु॑वा॒नः सो॑म क॒लशे॑षु सीदसि ॥
स्वर सहित पद पाठप्र । ते॒ । धाराः॑ । अति॑ । अण्वा॑नि । मे॒ष्यः॑ । पु॒ना॒नस्य॑ । स॒म्ऽयतः॑ । य॒न्ति॒ । रंह॑यः । यत् । गोऽभिः॑ । इ॒न्दो॒ इति॑ । च॒म्वोः॑ । स॒म्ऽअ॒ज्यसे॑ । आ । सु॒वा॒नः । सो॒म॒ । क॒लशे॑षु । सी॒द॒सि॒ ॥
स्वर रहित मन्त्र
प्र ते धारा अत्यण्वानि मेष्य: पुनानस्य संयतो यन्ति रंहयः । यद्गोभिरिन्दो चम्वो: समज्यस आ सुवानः सोम कलशेषु सीदसि ॥
स्वर रहित पद पाठप्र । ते । धाराः । अति । अण्वानि । मेष्यः । पुनानस्य । सम्ऽयतः । यन्ति । रंहयः । यत् । गोऽभिः । इन्दो इति । चम्वोः । सम्ऽअज्यसे । आ । सुवानः । सोम । कलशेषु । सीदसि ॥ ९.८६.४७
ऋग्वेद - मण्डल » 9; सूक्त » 86; मन्त्र » 47
अष्टक » 7; अध्याय » 3; वर्ग » 21; मन्त्र » 2
अष्टक » 7; अध्याय » 3; वर्ग » 21; मन्त्र » 2
पदार्थः -
(इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (यत्) यदा त्वं (गोभिः) ज्ञानिभिः (चम्वोः) सेनासम्बन्धे (समज्यसे) उपसेव्यसे तदा त्वं (आ, सुवानः) सर्वव्यापकः (सोम) हे शान्तस्वभावपरमात्मन् ! (कलशेषु) उपासकानामन्तःकरणेषु (सीदसि) विराजसे अपि च (ते धाराः) तव प्रेमधाराः (अति, अण्वानि) याः सूक्ष्माः सन्ति। (संयतः) संयमिनं पुरुषं (पुनानस्य) यः सदुपदेशैः सर्वपावकोऽस्ति। तं (यन्ति) प्राप्नुवन्ति। याः प्रेमधाराः (रंहयः) गतिशीलास्सन्ति ॥४७॥