ऋग्वेद - मण्डल 9/ सूक्त 86/ मन्त्र 48
पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् । ज॒हि विश्वा॑न्र॒क्षस॑ इन्दो अ॒त्रिणो॑ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥
स्वर सहित पद पाठपव॑स्व । स्म् । क्र॒तु॒ऽवित् । नः॒ । उ॒क्थ्यः॑ । अव्यः॑ । वारे॑ । परि॑ । धा॒व॒ । मधु॑ । प्रि॒यम् । ज॒हि । विश्वा॑न् । र॒क्षसः॑ । इ॒न्दो॒ इति॑ । अ॒त्रिणः॑ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥
स्वर रहित मन्त्र
पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम् । जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीरा: ॥
स्वर रहित पद पाठपवस्व । स्म् । क्रतुऽवित् । नः । उक्थ्यः । अव्यः । वारे । परि । धाव । मधु । प्रियम् । जहि । विश्वान् । रक्षसः । इन्दो इति । अत्रिणः । बृहत् । वदेम । विदथे । सुऽवीराः ॥ ९.८६.४८
ऋग्वेद - मण्डल » 9; सूक्त » 86; मन्त्र » 48
अष्टक » 7; अध्याय » 3; वर्ग » 21; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 21; मन्त्र » 3
पदार्थः -
(सोम) हे परमात्मन् ! त्वं (क्रतुवित्) कर्म्मणां वेत्तासि। (नः) अस्मान् (पवस्व) पवित्रय। (उक्थ्यः) त्वं सर्वासामुपासनानामाधारोऽसि। अपि च (अव्यः) रक्षकः। तथा (वारे) वरणीये पुरुषे (प्रियं, मधु) प्रियानन्दं (परिधाव) परिदेहि। (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! त्वं (अत्रिणः, विश्वान्, रक्षसः) सर्वाणि हिंसकरक्षांसि (जहि) हिंसय। (सुवीराः) सुसन्ततिमन्तो वयं (विदथे) महत्सु यज्ञेषु (बृहत्, वदेम) भवतः स्तुतिं कुर्य्याम ॥४८॥ इति षडशीतितमं सूक्तमेकविंशो वर्गश्च समाप्तः ॥