ऋग्वेद - मण्डल 9/ सूक्त 87/ मन्त्र 1
प्र तु द्र॑व॒ परि॒ कोशं॒ नि षी॑द॒ नृभि॑: पुना॒नो अ॒भि वाज॑मर्ष । अश्वं॒ न त्वा॑ वा॒जिनं॑ म॒र्जय॒न्तोऽच्छा॑ ब॒र्ही र॑श॒नाभि॑र्नयन्ति ॥
स्वर सहित पद पाठप्र । तु । द्र॒व॒ । परि॑ । कोश॑म् । नि । सी॒द॒ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वाज॑म् । अ॒र्ष॒ । अश्व॑म् । न । त्वा॒ । वा॒जिन॑म् । म॒र्जय॑न्तः । अच्छ॑ । ब॒र्हिः । र॒श॒नाभिः॑ । न॒य॒न्ति॒ ॥
स्वर रहित मन्त्र
प्र तु द्रव परि कोशं नि षीद नृभि: पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥
स्वर रहित पद पाठप्र । तु । द्रव । परि । कोशम् । नि । सीद । नृऽभिः । पुनानः । अभि । वाजम् । अर्ष । अश्वम् । न । त्वा । वाजिनम् । मर्जयन्तः । अच्छ । बर्हिः । रशनाभिः । नयन्ति ॥ ९.८७.१
ऋग्वेद - मण्डल » 9; सूक्त » 87; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 22; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 22; मन्त्र » 1
विषयः - अस्मिन् सूक्ते ऋषिविप्रादिनामभिः परमात्मैव वर्ण्यते।
पदार्थः -
हे परमात्मन् ! (तु) शीघ्रं (प्र, द्रव) गच्छ। गत्वा च (कोशं) कर्म्मयोगिनोऽन्तःकरणं (परि, नि, सीद) गृहाण। (नृभिः) अपि च नरैः (पुनानः) पूज्यमानस्त्वं (वाजं) बलं (अभि, अर्ष) वर्ष। (अश्वं) विद्युतः (न) तुल्यं (त्वा, वाजिनं) बलस्वरूपं त्वां (मर्जयन्तः) उपासकाः (अच्छ, बर्हिः) यज्ञं प्रति (रशनाभिः) उपासनाभिः (नयन्ति) प्राप्नुवन्ति ॥१॥