ऋग्वेद - मण्डल 9/ सूक्त 88/ मन्त्र 1
अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्वे॒ तुभ्यं॑ पवते॒ त्वम॑स्य पाहि । त्वं ह॒ यं च॑कृ॒षे त्वं व॑वृ॒ष इन्दुं॒ मदा॑य॒ युज्या॑य॒ सोम॑म् ॥
स्वर सहित पद पाठअ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । तुभ्य॑म् । प॒व॒ते॒ । त्वम् । अ॒स्य॒ । पा॒हि॒ । त्वम् । ह॒ । यम् । च॒कृ॒षे । त्वम् । व॒वृ॒षे । इन्दु॑म् । मदा॑य । युज्या॑य । सोम॑म् ॥
स्वर रहित मन्त्र
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि । त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥
स्वर रहित पद पाठअयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि । त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम् ॥ ९.८८.१
ऋग्वेद - मण्डल » 9; सूक्त » 88; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 24; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 24; मन्त्र » 1
पदार्थः -
(इन्द्र) हे कर्म्मयोगिन् (तुभ्यं, सुन्वे) तव संस्काराय (अयं, सोमः) अयं सोमः परमात्मा (तुभ्यं, पवते) त्वां पवित्रयति। (त्वं) पूर्वोक्तस्त्वं (अस्य) अमुष्याज्ञा (पाहि) रक्ष। (त्वं) पूर्वोक्तस्त्वं (यं) यस्य (इन्दुं) प्रकाशस्वरूपस्य (सोमं) परमात्मनः (चकृषे) उपासनां करोषि, सः (त्वं) तव (ववृषे) वरणाय (मदाय) आनन्ददानाय च स्वीकरोति त्वाम् अतस्त्वं (युज्याय) स्वसाहाय्याय (सोमं) सोमस्वरूपपरमात्मन उपासनां कुरु ॥१॥