Loading...
ऋग्वेद मण्डल - 9 के सूक्त 88 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 88/ मन्त्र 2
    ऋषिः - उशनाः देवता - पवमानः सोमः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    स ईं॒ रथो॒ न भु॑रि॒षाळ॑योजि म॒हः पु॒रूणि॑ सा॒तये॒ वसू॑नि । आदीं॒ विश्वा॑ नहु॒ष्या॑णि जा॒ता स्व॑र्षाता॒ वन॑ ऊ॒र्ध्वा न॑वन्त ॥

    स्वर सहित पद पाठ

    सः । ई॒म् इति॑ । रथः॑ । न । भु॒रि॒षाट् । अ॒यो॒जि॒ । म॒हः । पु॒रूणि॑ । सा॒तये॑ । वसू॑नि । आत् । ई॒म् इति॑ । विश्वा॑ । न॒हु॒ष्या॑णि । जा॒ता । स्वः॑ऽसाता । वने॑ । ऊ॒र्ध्वा । न॒व॒न्त॒ ॥


    स्वर रहित मन्त्र

    स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि । आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥

    स्वर रहित पद पाठ

    सः । ईम् इति । रथः । न । भुरिषाट् । अयोजि । महः । पुरूणि । सातये । वसूनि । आत् । ईम् इति । विश्वा । नहुष्याणि । जाता । स्वःऽसाता । वने । ऊर्ध्वा । नवन्त ॥ ९.८८.२

    ऋग्वेद - मण्डल » 9; सूक्त » 88; मन्त्र » 2
    अष्टक » 7; अध्याय » 3; वर्ग » 24; मन्त्र » 2

    पदार्थः -
    (सः, ईं) सोऽयं सोमः (रथः, न) गतिशीलविद्युदादिपदार्था इव (भुरिषाट्) सर्वगतिकारकोऽस्ति अपि च सर्वपदार्थानुत्पत्तिसमये (अयोजि) सम्मिश्रयति। (पुरूणि, वसूनि) बहूनि धनानि (सातये) सुखं दातुं (आत्, ईं) निश्चयेन यः (नहुष्याणि) मनुष्ययोग्योऽस्ति तस्मै ददाति। (वने, स्वर्षाता) सङ्ग्रामे (विश्वा) बहवः (जाताः) येऽरय उत्पन्नाः (ऊर्ध्वा, नवन्त) ते ऊर्ध्वपदात् नीचैर्भवन्तु ॥२॥

    इस भाष्य को एडिट करें
    Top