ऋग्वेद - मण्डल 9/ सूक्त 89/ मन्त्र 1
ऋषिः - उशनाः
देवता - पवमानः सोमः
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
प्रो स्य वह्नि॑: प॒थ्या॑भिरस्यान्दि॒वो न वृ॒ष्टिः पव॑मानो अक्षाः । स॒हस्र॑धारो असद॒न्न्य१॒॑स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोम॑: ॥
स्वर सहित पद पाठप्रो इति॑ । स्यः । वह्निः॑ । प॒थ्या॑भिः । अ॒स्या॒न् । दि॒वः । न । वृ॒ष्टिः । पव॑मानः । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽधारः । अ॒स॒द॒त् । नि । अ॒स्मे इति॑ । मा॒तुः । उ॒पऽस्थे॑ । वने॑ । आ । च॒ । सोमः॑ ॥
स्वर रहित मन्त्र
प्रो स्य वह्नि: पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः । सहस्रधारो असदन्न्य१स्मे मातुरुपस्थे वन आ च सोम: ॥
स्वर रहित पद पाठप्रो इति । स्यः । वह्निः । पथ्याभिः । अस्यान् । दिवः । न । वृष्टिः । पवमानः । अक्षारिति । सहस्रऽधारः । असदत् । नि । अस्मे इति । मातुः । उपऽस्थे । वने । आ । च । सोमः ॥ ९.८९.१
ऋग्वेद - मण्डल » 9; सूक्त » 89; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 25; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 25; मन्त्र » 1
विषयः - अथ परमात्मनि तद्द्धर्म्मताप्राप्तियोगो निरूप्यते।
पदार्थः -
(वह्निः) वहति प्रापयतीति वह्निः, य उत्तमगुणानां प्रापकस्तस्येह नाम वह्निरस्ति परमात्मा (पथ्याभिः) शुभमार्गैः (अस्यान्) शुभस्थानानि प्रापयति। (प्रो स्यः) स परमात्मा (दिवः) द्युलोकस्य (वृष्टिः) वर्षणं (न) इव (पवमानः) पावकोऽस्ति। (अक्षाः) स सर्वान् पश्यति। परमात्मा (सहस्रधारः) अनन्तशक्तियुक्तोऽस्ति। (अस्मे) मह्यं (नि, असदत्) विराजते। (मातुः, उपस्थे) मातृक्रोडे (च) पुनः (वने) अरण्ये (सोमः) स परमात्मा (आ) सर्वत्रागत्य मां रक्षति ॥१॥