ऋग्वेद - मण्डल 9/ सूक्त 88/ मन्त्र 8
राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ । शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥
स्वर सहित पद पाठराज्ञः॑ । नु । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृ॒हत् । ग॒भी॒रम् । तव॑ । सो॒म॒ । धाम॑ । शुचिः॑ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः॑ । अ॒र्य॒माऽइ॑व । अ॒सि॒ । सो॒म॒ ॥
स्वर रहित मन्त्र
राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम । शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥
स्वर रहित पद पाठराज्ञः । नु । ते । वरुणस्य । व्रतानि । बृहत् । गभीरम् । तव । सोम । धाम । शुचिः । त्वम् । असि । प्रियः । न । मित्रः । दक्षाय्यः । अर्यमाऽइव । असि । सोम ॥ ९.८८.८
ऋग्वेद - मण्डल » 9; सूक्त » 88; मन्त्र » 8
अष्टक » 7; अध्याय » 3; वर्ग » 24; मन्त्र » 8
अष्टक » 7; अध्याय » 3; वर्ग » 24; मन्त्र » 8
पदार्थः -
हे परमात्मन् ! (ते, वरुणस्य, राज्ञः) यस्त्वं निजशक्त्यां सर्वेषां वस्तूनां स्थापको राजासि (ते) तव (नु) निश्चयेन (व्रतानि) अहम् आराधनानि दधानि। (सोम) हे परमात्मन् ! (तव धाम) तव स्वरूपाणि (बृहद्गभीरं) अतिगभीराणि सन्ति। अपि च (शुचिः, त्वम्, असि) त्वं नित्यशुद्धादिस्वभावोऽसि। (प्रियः, न) प्रियतुल्योऽसि। (मित्रः, न) सखेवासि। (दक्षाय्यः) मान्योऽसि। (अर्यमा, इवासि, सोम) हे परमात्मन् ! न्यायकारी भवानस्ति ॥८॥ इत्यष्टाशीतितमं सूक्तं चतुर्विंशो वर्गश्च समाप्तः ॥