ऋग्वेद - मण्डल 9/ सूक्त 94/ मन्त्र 1
अधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभ॒: स्पर्ध॑न्ते॒ धिय॒: सूर्ये॒ न विश॑: । अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ॥
स्वर सहित पद पाठअधि॑ । यत् । अ॒स्मि॒न् । वा॒जिनि॑ऽइव । शुभः॑ । स्पर्ध॑न्ते । धियः॑ । सूर्ये॑ । न । विशः॑ । अ॒पः । वृ॒णा॒नः । प॒व॒ते॒ । क॒वि॒ऽयन् । व्र॒जम् । न । प॒शु॒ऽवर्ध॑नाय । मन्म॑ ॥
स्वर रहित मन्त्र
अधि यदस्मिन्वाजिनीव शुभ: स्पर्धन्ते धिय: सूर्ये न विश: । अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥
स्वर रहित पद पाठअधि । यत् । अस्मिन् । वाजिनिऽइव । शुभः । स्पर्धन्ते । धियः । सूर्ये । न । विशः । अपः । वृणानः । पवते । कविऽयन् । व्रजम् । न । पशुऽवर्धनाय । मन्म ॥ ९.९४.१
ऋग्वेद - मण्डल » 9; सूक्त » 94; मन्त्र » 1
अष्टक » 7; अध्याय » 4; वर्ग » 4; मन्त्र » 1
अष्टक » 7; अध्याय » 4; वर्ग » 4; मन्त्र » 1
विषयः - अथ परमात्मनः श्रेयोधामत्वं निरूप्यते।
पदार्थः -
(सूर्ये) सूर्यविषये (न) यथा (विशः) रश्मयः प्रकाशयन्ति तथैव (धियः) मनुष्यबुद्धयः (स्पर्धन्ते) स्वोत्कटशक्त्या विषयं कुर्वन्ति (अस्मिन्, अधि) यस्मिन् परमात्मनि (वाजिनीव) सर्वोपरिबलानीव (शुभः) शुभबलमस्ति स परमात्मा (अपः, वृणानः) कर्माध्यक्षो भवन् (पवते) सर्वान् पावयति (कवीयन्) कविरिवाचरन् (पशुवर्धनाय) सर्वद्रष्टृत्वपदाय (व्रजं, न) इन्द्रियाधिकरणमन इव (मन्म) यः अधिकरणरूपोस्ति, स एव श्रेयोधामास्ति ॥१॥