ऋग्वेद - मण्डल 9/ सूक्त 94/ मन्त्र 2
द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथन्त । धिय॑: पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यन्ती॑र॒भि वा॑वश्र॒ इन्दु॑म् ॥
स्वर सहित पद पाठद्वि॒ता । वि॒ऽऊ॒र्ण्वन् । अ॒मृत॑स्य । धाम॑ । स्वः॒ऽविदे॑ । भुव॑नानि । प्र॒थ॒न्त॒ । धियः॑ । पि॒न्वा॒नाः । स्वस॑रे । न । गावः॑ । ऋ॒त॒ऽयन्तीः॑ । अ॒भि । व॒व॒श्रे॒ । इन्दु॑म् ॥
स्वर रहित मन्त्र
द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त । धिय: पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम् ॥
स्वर रहित पद पाठद्विता । विऽऊर्ण्वन् । अमृतस्य । धाम । स्वःऽविदे । भुवनानि । प्रथन्त । धियः । पिन्वानाः । स्वसरे । न । गावः । ऋतऽयन्तीः । अभि । ववश्रे । इन्दुम् ॥ ९.९४.२
ऋग्वेद - मण्डल » 9; सूक्त » 94; मन्त्र » 2
अष्टक » 7; अध्याय » 4; वर्ग » 4; मन्त्र » 2
अष्टक » 7; अध्याय » 4; वर्ग » 4; मन्त्र » 2
पदार्थः -
स परमात्मा (द्विता) जीवप्रकृतिरूपद्वैतं (व्यूर्ण्वन्) आच्छादयन् (अमृतस्य, धाम) अमृताधारोऽस्ति तस्मै (स्वर्विदे) सर्वज्ञाय (भुवनानि) सम्पूर्णलोकलोकारान्तराणि (प्रथन्त) विस्तीर्यन्ते। स परमात्मा (धियः, पिन्वानाः) विज्ञानेन परिपूर्णः (स्वसरे) स्वरूपे (न) यथा (गावः) इन्द्रियाणि (ऋतायन्तीः) यज्ञेच्छां कुर्वाणानि सर्वतः (अभि, वावश्रे) शब्दं कुर्वन्ति अथवा (इन्दुं) प्रकाशस्वरूपपरमात्मानं कामयन्ते। एवं हि जिज्ञासव उक्तपरमात्मानं कामयन्ताम् ॥२॥