ऋग्वेद - मण्डल 9/ सूक्त 95/ मन्त्र 2
ऋषिः - प्रस्कण्वः
देवता - पवमानः सोमः
छन्दः - संस्तारपङ्क्ति
स्वरः - पञ्चमः
हरि॑: सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म् । दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥
स्वर सहित पद पाठहरिः॑ । सृ॒जा॒नः । प॒थ्या॑म् । ऋ॒तस्य॑ । इय॑र्ति । वाच॑म् । अ॒रि॒ताऽइ॑व । नाव॑म् । दे॒वः । दे॒वाना॑म् । गुह्या॑नि । नाम॑ । आ॒विः । कृ॒णो॒ति॒ । ब॒र्हिषि॑ । प्र॒ऽवाचे॑ ॥
स्वर रहित मन्त्र
हरि: सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम् । देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥
स्वर रहित पद पाठहरिः । सृजानः । पथ्याम् । ऋतस्य । इयर्ति । वाचम् । अरिताऽइव । नावम् । देवः । देवानाम् । गुह्यानि । नाम । आविः । कृणोति । बर्हिषि । प्रऽवाचे ॥ ९.९५.२
ऋग्वेद - मण्डल » 9; सूक्त » 95; मन्त्र » 2
अष्टक » 7; अध्याय » 4; वर्ग » 5; मन्त्र » 2
अष्टक » 7; अध्याय » 4; वर्ग » 5; मन्त्र » 2
पदार्थः -
(हरिः) स पूर्वोक्तः परमात्मा (सृजानः) साक्षात्क्रियमाणः (ऋतस्य, पथ्यां, वाचम्) वाग्द्वारा मुक्तिमार्गं (इयर्त्ति) प्रेरयति (अरिता, इव, नावं) यथा नावस्तरणकाले नाविकः प्रेरणां करोति, स परमात्मा (देवानां देवः) सर्वदेवानामधिष्ठाता (गुह्यानि) गुप्ताः (नाम, आविः, कृणोति) संज्ञाः प्रकटयति (बर्हिषि, प्रवाचे) वाग्यज्ञार्थम् ॥२॥