Loading...
ऋग्वेद मण्डल - 9 के सूक्त 95 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 95/ मन्त्र 1
    ऋषिः - प्रस्कण्वः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा॑न॒: सीद॒न्वन॑स्य ज॒ठर॑ऋ पुना॒नः । नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभि॑: ॥

    स्वर सहित पद पाठ

    कनि॑क्रन्ति । हरिः॑ । आ । सृ॒ज्यमा॑नः । सीद॑न् । वन॑स्य । ज॒ठरे॑ । पु॒ना॒नः । नृऽभिः॑ । य॒तः । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । गाः । अतः॑ । म॒तीः । ज॒न॒य॒त॒ । स्व॒धाभिः॑ ॥


    स्वर रहित मन्त्र

    कनिक्रन्ति हरिरा सृज्यमान: सीदन्वनस्य जठरऋ पुनानः । नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभि: ॥

    स्वर रहित पद पाठ

    कनिक्रन्ति । हरिः । आ । सृज्यमानः । सीदन् । वनस्य । जठरे । पुनानः । नृऽभिः । यतः । कृणुते । निःऽनिजम् । गाः । अतः । मतीः । जनयत । स्वधाभिः ॥ ९.९५.१

    ऋग्वेद - मण्डल » 9; सूक्त » 95; मन्त्र » 1
    अष्टक » 7; अध्याय » 4; वर्ग » 5; मन्त्र » 1

    पदार्थः -
    (हरिः) हरणशीलशक्तिमान् परमात्मा (सृज्यमानः) साक्षात्कारं प्राप्नोति तदा (वनस्य) भक्तस्य (जठरे) अन्तःकरणे (सीदन्) स्थितिं कुर्वन् (पुनानः) तं पावयंश्च विराजते (यतः) यस्मात् (नृभिः) मनुष्यैः (निर्णिजं, कृणुते) साक्षात्क्रियते तदा (गाः) इन्द्रियाणि शोधयन् (मतीः, जनयत) सुमतिमुत्पादयति (स्वधाभिः) स्वशक्तिभिः (कनिक्रन्ति) पुनः पुनः शब्दायमान इव साक्षात्कारं लभते ॥१॥

    इस भाष्य को एडिट करें
    Top