अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 1
सूक्त - रुद्र
देवता - त्रिपदा समविषमा गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मै॒ प्राच्या॑दि॒शो अ॑न्तर्दे॒शाद्भ॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
स्वर सहित पद पाठतस्मै॑ । प्राच्या॑: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । भ॒वम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.१॥
स्वर रहित मन्त्र
तस्मै प्राच्यादिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन् ॥
स्वर रहित पद पाठतस्मै । प्राच्या: । दिश: । अन्त:ऽदेशात् । भवम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(तस्मै) विदुषे (प्राच्याः) पूर्वायाः (दिशः) (अन्तर्देशात्) मध्यदेशात् (भवम्) सर्वत्रवर्तमानं परमेश्वरम् (इष्वासम्) ईषेः किच्च। उ० १।१३। ईष हिंसायाम्-उ प्रत्ययः, कित् ह्रस्वश्च, इषु+असु क्षेपे-अण्। हिंसायाः क्षेपकं नाशकम् (अनुष्ठातारम्)सहवर्तमानम् (अकुर्वन्) ते विद्वांसः कृतवन्तः ॥
इस भाष्य को एडिट करें