अथर्ववेद - काण्ड 19/ सूक्त 11/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - मन्त्रोक्ताः
छन्दः - त्रिष्टुप्
सूक्तम् - शान्ति सूक्त
शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शमहि॑र्बु॒ध्न्यः शं स॑मु॒द्रः। शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृष्णि॑र्भवतु दे॒वगो॑पा ॥
स्वर सहित पद पाठशम्। नः॒। अ॒जः। एक॑ऽपात्। दे॒वः । अ॒स्तु॒। शम्। अहिः॑। बु॒ध्न्यः᳡। शम्। स॒मु॒द्रः। शम्। नः॒। अ॒पाम्। नपा॑त्। पे॒रुः। अ॒स्तु॒। शम्। नः॒। पृश्निः॑। भ॒व॒तु॒। दे॒वऽगो॑पा ॥११.३॥
स्वर रहित मन्त्र
शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः। शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥
स्वर रहित पद पाठशम्। नः। अजः। एकऽपात्। देवः । अस्तु। शम्। अहिः। बुध्न्यः। शम्। समुद्रः। शम्। नः। अपाम्। नपात्। पेरुः। अस्तु। शम्। नः। पृश्निः। भवतु। देवऽगोपा ॥११.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 11; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र ३-५ कुछ भेद से ऋग्वेद में हैं−७।३५।१३-१५ ॥ ३−(शम्) शान्तिप्रदः (नः) अस्मभ्यम् (अजः) अजन्मा जगदीश्वरः (एकपात्) सर्वं जगदेकस्मिन् पादे पादगतिप्रमाणे अंशे वा यस्य सः (देवः) प्रकाशमयः परमात्मा (अस्तु) (शम्) (अहिः) आङि श्रिहनिभ्यां ह्रस्वश्च। उ० ४।१३८। इति बाहुलकात्, नञ्+हन वधे-इण्, डित्। अहन्ता। अमारकः (बुध्न्यः) बुध्नेषु तत्त्वमूलेषु विद्यमानः (शम्) (समुद्रः) समुद्र आदित्यः, समुद्र आत्मा-निरु० १४।१६। सर्वसेचकः परमात्मा (शम्) (नः) (अपाम्) प्रजानाम् (नपात्) न पातयिता। सर्वदा रक्षकः (पेरुः) मीपीभ्यां रुः। उ० ४।१०१। पीङ् पाने-रु प्रत्ययः। यद्वा पा रक्षणे-रु प्रत्ययः, आकारस्य एकारः। यद्वा पार कर्मसमाप्तौ−उ प्रत्ययः आकारस्य एकारः। पानकर्ता। रक्षकः। पारयिता (अस्तु) (शम्) (नः) (पृश्निः) प्रष्टव्या प्रकृतिः। जगत्सामग्री (भवतु) (देवगोपा) देव+गुपू रक्षणे-अच्, टाप्। देवः परमेश्वरो गोपो रक्षको यस्याः सा ॥
इस भाष्य को एडिट करें