Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 20/ मन्त्र 2
यानि॑ च॒कार॒ भुव॑नस्य॒ यस्पतिः॑ प्र॒जाप॑तिर्मात॒रिश्वा॑ प्र॒जाभ्यः॑। प्र॒दिशो॒ यानि॑ वस॒ते दिश॑श्च॒ तानि॑ मे॒ वर्मा॑णि बहु॒लानि॑ सन्तु ॥
स्वर सहित पद पाठयानि॑। च॒कार॑। भुव॑नस्य। यः। पतिः॑। प्र॒जाऽप॑तिः। मा॒त॒रिश्वा॑। प्र॒ऽजाभ्यः॑। प्र॒ऽदिशः॑। यानि॑। व॒स॒ते। दिशः॑। च॒ तानि॑। मे॒। वर्मा॑णि। ब॒हु॒लानि॑। स॒न्तु॒ ॥२०.२॥
स्वर रहित मन्त्र
यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः। प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥
स्वर रहित पद पाठयानि। चकार। भुवनस्य। यः। पतिः। प्रजाऽपतिः। मातरिश्वा। प्रऽजाभ्यः। प्रऽदिशः। यानि। वसते। दिशः। च तानि। मे। वर्माणि। बहुलानि। सन्तु ॥२०.२॥
अथर्ववेद - काण्ड » 19; सूक्त » 20; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यानि) वर्माणि। रक्षासाधनानि (चकार) रचितवान् (भुवनस्य) संसारस्य (यः) (पतिः) स्वामी (प्रजापतिः) प्रजापालकः (मातरिश्वा) टुओश्वि गतिवृद्ध्योः-कनिन्। मातरि आकाशे श्वयति व्याप्नोतीति परमात्मा (प्रज्ञाभ्यः) (प्रदिशः) प्राच्यादिदिशाः (यानि) वर्माणि (वसते) आच्छादयन्ति। रक्षन्ति (दिशः) मध्यवर्तिनीर्दिशाः (च) (तानि) (मे) मह्यम् (वर्माणि) कवचानि। रक्षासाधनानि (बहुलानि) प्रभूतानि (सन्तु) भवन्तु ॥
इस भाष्य को एडिट करें