अथर्ववेद - काण्ड 19/ सूक्त 50/ मन्त्र 5
अप॑ स्ते॒नं वासो॑ गोअ॒जमु॒त तस्क॑रम्। अथो॒ यो अर्व॑तः॒ शिरो॑ऽभि॒धाय॒ निनी॑षति ॥
स्वर सहित पद पाठअप॑। स्ते॒नम्। वासः॑। गो॒ऽअ॒जम्। उ॒त। तस्क॑रम् ॥ अथो॒ इति॑। यः। अर्व॑तः। शिरः॑। अ॒भि॒ऽधाय॑। निनी॑षति ॥५०.५॥
स्वर रहित मन्त्र
अप स्तेनं वासो गोअजमुत तस्करम्। अथो यो अर्वतः शिरोऽभिधाय निनीषति ॥
स्वर रहित पद पाठअप। स्तेनम्। वासः। गोऽअजम्। उत। तस्करम् ॥ अथो इति। यः। अर्वतः। शिरः। अभिऽधाय। निनीषति ॥५०.५॥
अथर्ववेद - काण्ड » 19; सूक्त » 50; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(अप) दूरे (स्तेनम्) चोरम् (वासः) वस निवासे-णिजन्ताल्लेटि। छान्दसं रूपम्। त्वं वासयः। निवासं देहि (गोअजम्) गो+अज गतिक्षेपणयोः अच्। सर्वत्र विभाषा गोः। पा० ६।१।१२२। इति प्रकृतिभावः। गोः क्षेप्तारं प्रेरकम् (उत) अपि च (तस्करम्) (अथो) अपि च (यः) तस्करः (अर्वतः) अश्वस्य (शिरः) (अभिधाय) बध्वा (निनीषति) अपजिहीर्षति ॥
इस भाष्य को एडिट करें