अथर्ववेद - काण्ड 19/ सूक्त 9/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - शान्तिः, मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - शान्ति सूक्त
शं नो॑ मि॒त्रः शं वरु॑णः॒ शं वि॒वस्वा॒ञ्छमन्त॑कः। उ॒त्पाताः॒ पार्थि॑वा॒न्तरि॑क्षाः॒ शं नो॑ दि॒विच॑रा॒ ग्रहाः॑ ॥
स्वर सहित पद पाठशम्। नः॒। मि॒त्रः। शम्। वरु॑णः। शम्। वि॒वस्वा॑न्। शम्। अन्त॑कः। उ॒त्ऽपाताः॑। पार्थि॑वा। आ॒न्तरि॑क्षाः। शम्। नः॒। दि॒विऽच॑राः। ग्रहाः॑ ॥९.७॥
स्वर रहित मन्त्र
शं नो मित्रः शं वरुणः शं विवस्वाञ्छमन्तकः। उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥
स्वर रहित पद पाठशम्। नः। मित्रः। शम्। वरुणः। शम्। विवस्वान्। शम्। अन्तकः। उत्ऽपाताः। पार्थिवा। आन्तरिक्षाः। शम्। नः। दिविऽचराः। ग्रहाः ॥९.७॥
अथर्ववेद - काण्ड » 19; सूक्त » 9; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(शम्) शान्तिप्रदः (नः) अस्मभ्यम् (मित्रः) मिनोतेः-क्त्र। प्रेरकः प्राणः (शम्) (वरुणः) जलम्। अपानः (शम्) (विवस्वान्) विविधप्रकाशकः सूर्यः (शम्) (अन्तकः) अन्त+करोतेः-ड प्रत्ययः। अन्तकरः। मृत्युः (उत्पाताः) उपद्रवाः (पार्थिवा) विभक्तेर्डा। पार्थिवाः। पृथिव्यां भवाः (आन्तरिक्षाः) आकाशे भवाः (शम्) (नः) (दिविचराः) सूर्यप्रभावे विचरणशीलाः (ग्रहाः) चन्द्रमङ्गलबुधादयः ॥
इस भाष्य को एडिट करें