अथर्ववेद - काण्ड 2/ सूक्त 19/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री
सूक्तम् - शत्रुनाशन सूक्त
अग्ने॒ यत्ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥
स्वर सहित पद पाठअग्ने॑ । यत् । ते॒ । तप॑: । तेन॑ । तम् । प्रति॑ । त॒प॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥१९.१॥
स्वर रहित मन्त्र
अग्ने यत्ते तपस्तेन तं प्रति तप यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥
स्वर रहित पद पाठअग्ने । यत् । ते । तप: । तेन । तम् । प्रति । तप । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥१९.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 19; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–अग्ने। अग्निनाम तेजोविशेष ! ते। त्वदीयम्। तपः। तप सन्तापैश्वर्ययोः–असुन्। प्रतापः। ऐश्वर्यम्। तेन। तपसा। तम्। दोषम्। प्रति। लक्षीकृत्य। तप। प्रतापी भव। यः अस्मान् द्वेष्टि यं वयं द्विष्मः। इति व्याख्यातम्–अ० २।११।३ ॥
इस भाष्य को एडिट करें