Loading...
अथर्ववेद > काण्ड 2 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 25/ मन्त्र 3
    सूक्त - चातनः देवता - वनस्पतिः पृश्नपर्णी छन्दः - अनुष्टुप् सूक्तम् - पृश्नपर्णी सूक्त

    अ॒राय॑मसृ॒क्पावा॑नं॒ यश्च॑ स्फा॒तिं जिही॑र्षति। ग॑र्भा॒दं कण्वं॑ नाशय॒ पृश्नि॑पर्णि॒ सह॑स्व च ॥

    स्वर सहित पद पाठ

    अ॒राय॑म् । अ॒सृ॒क्ऽपावा॑नम् । य: । च॒ । स्फा॒तिम् । जिही॑र्षति । ग॒र्भ॒ऽअ॒दम् । कण्व॑म् । ना॒श॒य‍॒ । पृश्नि॑ऽपर्णि । सह॑स्व । च॒ ॥२५.३॥


    स्वर रहित मन्त्र

    अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति। गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥

    स्वर रहित पद पाठ

    अरायम् । असृक्ऽपावानम् । य: । च । स्फातिम् । जिहीर्षति । गर्भऽअदम् । कण्वम् । नाशय‍ । पृश्निऽपर्णि । सहस्व । च ॥२५.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 25; मन्त्र » 3

    टिप्पणीः - ३–अरायम्। रा दानादानयोः–घञ् युक् आगमः। नञ्समासः। निर्धनताम्। असृक्पावानम्। असु क्षेपे, यद्वा असञ् दीप्तिग्रहणगतिषु–ऋजिप्रत्ययः। अस्यते क्षिप्यते नाडीभिः। यद्वा असति शरीरं येन, यद्वा गृह्णाति गच्छति वा यत्तद् असृक्, रक्तम्। आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति पा पाने वनिप्। रुधिरस्य पानशीलं नाशकम्। स्फातिम्। स्फायी वृद्धौ–क्तिन्। वृद्धिम्। जिहीर्षति। हृञ् हरणे–सनि लट्। हर्तुं नाशयितुमिच्छति उपक्रमते। गर्भादम्। अदोऽनन्ने। पा० ३।२।६८। इति गर्भ+अद भक्षणे–विट्। गर्भस्य भक्षकम्। कण्वम्। व्याख्यातम् (कण्वजम्भनी) इति शब्दे–म० १। कण्यते अपोद्यते इति कण्वं पापम्। अर्शआदिभ्योऽच् पा० ४।२।१२७। इति मत्वर्थे अच्। पापयुक्तं दुःखकरं रोगम्। नाशय। मारय। पृश्निपर्णि। म० १। सहस्व। अभिभव ॥

    इस भाष्य को एडिट करें
    Top