Loading...
अथर्ववेद > काण्ड 2 > सूक्त 33

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - यक्षविबर्हणम्(पृथक्करणम्) चन्द्रमाः, आयुष्यम् छन्दः - अनुष्टुप्, चतुष्पाद्भुरिगुष्णिक् सूक्तम् - यक्षविबर्हण

    आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑। यक्ष्मं॑ कु॒क्षिभ्या॑म्प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ॥

    स्वर सहित पद पाठ

    आ॒न्त्रेभ्य॑: । ते॒ । गुदा॑भ्य: । व॒नि॒ष्ठो: । उ॒दरा॑त् । अधि॑ । यक्ष्म॑म् । कु॒क्षिऽभ्या॑म् । प्ला॒शे: । नाभ्या॑: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.४॥


    स्वर रहित मन्त्र

    आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि। यक्ष्मं कुक्षिभ्याम्प्लाशेर्नाभ्या वि वृहामि ते ॥

    स्वर रहित पद पाठ

    आन्त्रेभ्य: । ते । गुदाभ्य: । वनिष्ठो: । उदरात् । अधि । यक्ष्मम् । कुक्षिऽभ्याम् । प्लाशे: । नाभ्या: । वि । वृहामि । ते ॥३३.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 4

    टिप्पणीः - ४–आन्त्रेभ्यः। अ० १।३।६। भ्रस्जिगमिनमि०। उ० ४।१६०। इति अति बन्धने–ष्ट्रन्। उदरनाडीविशेषेभ्यः। पुरीतद्भ्यः। गुदाभ्यः। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति गुद खेलने–क। टाप्। गोदते खेलति चलति अपानवायुर्यया। मलत्यागनाडीभ्यः। वनिष्ठोः। वन संभक्तौ–ओणादिक इष्ठुप् प्रत्ययः। स्थूलान्त्रात्। उदरात्। उदि दृणातेरलचौ पूर्वपदान्त्यलोपश्च। उ० ५।१९। इति उद्+दृ विदारे–अच्। उपसर्गस्य दलोपः। नाभिस्तनयोर्मध्यभागात्। जठरात्। कुक्षिभ्याम्। प्लुषिकुषिशुषिभ्यः क्सिः। उ० ३।१५५। इति कुष निष्कर्षे–क्सि। दक्षिणोत्तरोदरभागाभ्याम्। प्लाशेः। वसिवपियजि०। उ० ४।१२५। इति प्र+अशू व्याप्तौ–इञ्, रस्य लः। बहुच्छिद्रात् मलपात्रात्–इति सायणः [Mesentery–Griffith.]। शिश्नात्, यथा महीधरः–यजु० १९।८७। कुक्षिस्थनाडीविशेषात्। नाभ्याः। अ० १।१३।३। उदरावर्तात्। नाभिमण्डलात्। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top