Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 106/ मन्त्र 2
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
सूक्तम् - सूक्त-१०६
तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रवः॑। त्वामापः॒ पर्व॑तासश्च हिन्विरे ॥
स्वर सहित पद पाठतव॑ । द्यौ: । इ॒न्द्र॒ । पौंस्य॑म् । पृ॒थि॒वी । व॒र्ध॒ति॒ । श्रव॑: ॥ त्वाम् । आप॑: । पर्व॑तास: । च॒ । हि॒न्वि॒रे॒ ॥१०६.२॥
स्वर रहित मन्त्र
तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः। त्वामापः पर्वतासश्च हिन्विरे ॥
स्वर रहित पद पाठतव । द्यौ: । इन्द्र । पौंस्यम् । पृथिवी । वर्धति । श्रव: ॥ त्वाम् । आप: । पर्वतास: । च । हिन्विरे ॥१०६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 106; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(तव) (द्यौः) आकाशः (इन्द्र) हे परमेश्वर (पौंस्यम्) पौरुषम् (पृथिवी) (वर्धति) वर्धयति (श्रवः) यशः (त्वाम्) (आपः) जलानि (पर्वतास) शैलाः (च) (हिन्विरे) प्रीणयन्ति स्म ॥
इस भाष्य को एडिट करें