Loading...
अथर्ववेद > काण्ड 20 > सूक्त 138

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 138/ मन्त्र 3
    सूक्त - वत्सः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त १३८

    कण्वाः॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम्। जा॒मि ब्रु॑वत॒ आयु॑धम् ॥

    स्वर सहित पद पाठ

    कण्वा॑: । इन्द्र॑म् । यत् । अक्र॑त् । स्तोमै॑: । य॒ज्ञस्य॑ । साध॑नम् ॥ जा॒मि । ब्रु॒व॒ते॒ । आयु॑धम् ॥१३८.३॥


    स्वर रहित मन्त्र

    कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम्। जामि ब्रुवत आयुधम् ॥

    स्वर रहित पद पाठ

    कण्वा: । इन्द्रम् । यत् । अक्रत् । स्तोमै: । यज्ञस्य । साधनम् ॥ जामि । ब्रुवते । आयुधम् ॥१३८.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 138; मन्त्र » 3

    टिप्पणीः - ३−(कण्वाः) मेधाविनः-निघ० ३।१। (इन्द्रम्) महाप्रतापिनं मनुष्यम् (यत्) यदा (अकृत) करोतेर्लुङि रूपम्। अकृषत (स्तोमैः) स्तुत्यगुणानां व्याख्यानैः (यज्ञस्य) देवपूजासंगतिकरणदानव्यवहारस्य (साधनम्) साधयितारं निष्पादकम् (जामि) वसिवपियमि०। उ० ४।१२। जमु अदने-इञ्। जामिं बन्धुम् (ब्रुवते) कथयन्ति (आयुधम्) आयुधो मनुष्यनाम-निघ० २।३। मनुष्याणां पोषकम् ॥

    इस भाष्य को एडिट करें
    Top