अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 3
ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः। ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥
स्वर सहित पद पाठये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑स: । प॒रि॒ऽम॒मृ॒क्षु: ॥ ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥१३९.३॥
स्वर रहित मन्त्र
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः। एवेत्काण्वस्य बोधतम् ॥
स्वर रहित पद पाठये । वाम् । दंसांसि । अश्विना । विप्रास: । परिऽममृक्षु: ॥ एव । इत् । काण्वस्य । बोधतम् ॥१३९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(ये) (वाम्) युवयोः (दंसांसि) कर्माणि (अश्विना) म० १। हे चतुरमातापितरौ। गुरुजनौ (विप्रासः) विप्राः। मेधाविनः (परिमामृशुः) मृशु स्पर्शे प्रणिधाने च-लिट्। विचारितवन्तः (एव) एवम्। तथा (इत्) अवधारणे (काण्वस्य) कण्वेन मेधाविना प्रणीतस्य कर्मणः (बोधतम्) बोधं कुरुतम् ॥
इस भाष्य को एडिट करें