Loading...
अथर्ववेद > काण्ड 20 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 26/ मन्त्र 3
    सूक्त - शुनःशेपः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२६

    अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म्। यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥

    स्वर सहित पद पाठ

    अनु॑ । प्र॒त्नस्य॑ । ओक॑स: । हु॒वे । तु॒वि॒ऽप्र॒तिम् । नर॑म् ॥ यम् । ते॒ । पूर्व॑म् । पि॒ता । हु॒वे ॥२६.३॥


    स्वर रहित मन्त्र

    अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम्। यं ते पूर्वं पिता हुवे ॥

    स्वर रहित पद पाठ

    अनु । प्रत्नस्य । ओकस: । हुवे । तुविऽप्रतिम् । नरम् ॥ यम् । ते । पूर्वम् । पिता । हुवे ॥२६.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 26; मन्त्र » 3

    टिप्पणीः - ३−(अनु) निरन्तरम् (प्रत्नस्य) अ० २०।२४।९। प्राचीनस्य (ओकसः) गृहस्य (हुवे) ह्वेञ् स्पर्धायां शब्दे च-लटि छान्दसं रूपम्। अहं ह्वये। आह्वयामि (तुविप्रतिम्) विनाऽपि प्रत्ययेन पूर्वोत्तरपदयोर्विभाषा लोपो वक्तव्यः। वा० पा० ।३।८३। इति गमयितृशब्दस्य लोपः। तुवीनां बहूनां पदार्थानां प्रतिगमयितारं प्रत्यक्षेण प्रापकम् (नरम्) नेतारम् (यम्) सभाध्यक्षम् (ते) तव (पूर्वम्) पूर्वकाले (पिता) जनकः (हुवे) ह्वेञ्-लिटि छान्दसं रूपम्। जुहुवे। आहूतवान् ॥

    इस भाष्य को एडिट करें
    Top