Loading...
अथर्ववेद > काण्ड 20 > सूक्त 33

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 33/ मन्त्र 3
    सूक्त - अष्टकः देवता - हरिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३३

    ऊ॒ती श॑चीव॒स्तव॑ वी॒र्येण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः। प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या॑सः ॥

    स्वर सहित पद पाठ

    ऊ॒ती । श॒ची॒ऽव॒: । तव॑ । वी॒र्ये॑ण । वय॑: । दधा॑ना: । उ॒शिज॑: । ऋ॒त॒ऽज्ञा: ॥ प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑ष: । दु॒रो॒णे । त॒स्थु: । गृ॒णन्त॑: । स॒ध॒ऽमा॒द्या॑स: ॥३३.३॥


    स्वर रहित मन्त्र

    ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः। प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥

    स्वर रहित पद पाठ

    ऊती । शचीऽव: । तव । वीर्येण । वय: । दधाना: । उशिज: । ऋतऽज्ञा: ॥ प्रजाऽवत् । इन्द्र । मनुष: । दुरोणे । तस्थु: । गृणन्त: । सधऽमाद्यास: ॥३३.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 33; मन्त्र » 3

    टिप्पणीः - इति तृतीयेऽनुवाके तृतीयः पर्यायः॥ इति तृतीयोऽनुवाकः ॥३−(ऊती) ऊत्या। रक्षणेन (शचीवः) अ०२०।२१।३। हे प्रशस्तप्रज्ञावन् (तव) (वीर्येण) वीरकर्मणा (वयः) जीवनम् (दधानाः) धारयन्तः (उशिजः) अ०२०।११।४। कामयमाना मेधाविनः (ऋतज्ञाः) सत्यशास्त्रस्य ज्ञातारः (प्रजावत्) उत्तमप्रजायुक्तम् (इन्द्र) (मनुषः) जनेरुसिः। उ०२।११। मन ज्ञाने-उसि। मननशीला मनुष्याः (दुरोणे) अ०।।६। गृहे-निघ०३।४। (तस्थुः) लङर्थे लिट्। तिष्ठन्ति (गृणन्तः) स्तुवन्तः। गुणान् विज्ञापयन्तः (सधमाद्यासः) मद हर्षे-ण्यत्। सह हृष्यन्तः ॥

    इस भाष्य को एडिट करें
    Top