अथर्ववेद - काण्ड 20/ सूक्त 38/ मन्त्र 4
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑। इन्द्रं॒ वाणी॑रनूषत ॥
स्वर सहित पद पाठइन्द्र॑म् । इत् । गा॒थिन॑: । बृ॒हत् । इन्द्र॑म् । अ॒र्केभि॑: । अ॒र्किण॑: ॥ इन्द्र॑म् । वाणी॑: । अ॒नू॒ष॒त॒ ॥३८.४॥
स्वर रहित मन्त्र
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः। इन्द्रं वाणीरनूषत ॥
स्वर रहित पद पाठइन्द्रम् । इत् । गाथिन: । बृहत् । इन्द्रम् । अर्केभि: । अर्किण: ॥ इन्द्रम् । वाणी: । अनूषत ॥३८.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 38; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र ४-६ ऋग्वेद में हैं-१।७।१-३, सामवेद-उ०२।१।८ और आगे हैं-अ०२०।४७।४-६ तथा ७०।७-९ और मन्त्र ४ सामवेद-पू०३।१।॥४−(इन्द्रम्) सूर्यमिव प्रतापिनम् (इत्) निश्चयेन (गाथिनः) उषिकुषिगर्त्तिभ्यस्थन्। उ०२।४। गायतेः-थन्प्रत्ययः, टाप्। व्रीह्यादिभ्यश्च। पा०।२।११६। गाथा-इनि। गानशीलाः (बृहत्) यथा भवति तथा। बृहद्भावेन (इन्द्रम्) वायुमिव शीघ्रगामिनम्। उद्योगिनम् (अर्केभिः) अ०३।३।२।पूजनीयविचारैः (अर्किणः) विचारवन्तः (इन्द्रम्) परमैश्वर्यन्तं राजानम् (वाणीः) वेदचतुष्टयीः (अनूषत) अ०२०।१७।१। स्तुतवन्तः ॥
इस भाष्य को एडिट करें