अथर्ववेद - काण्ड 20/ सूक्त 5/ मन्त्र 4
दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि। यज॑मानाय सुन्व॒ते ॥
स्वर सहित पद पाठदी॒र्घ: । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒श: । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि । यज॑मानाय । सु॒न्व॒ते ॥५.४॥
स्वर रहित मन्त्र
दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि। यजमानाय सुन्वते ॥
स्वर रहित पद पाठदीर्घ: । ते । अस्तु । अङ्कुश: । येन । वसु । प्रऽयच्छसि । यजमानाय । सुन्वते ॥५.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 5; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(दीर्घः) आयतः। विस्तृतः (ते) तव (अस्तु) (अङ्कुशः) वक्राग्रो लौहास्त्रभेदः। दण्डसाधनम् (येन) कारणेन (वसु) धनम् (प्रयच्छसि) ददासि (यजमानाय) दानिने पुरुषाय (सुन्वते) तत्त्वरसं निष्पादयते ॥
इस भाष्य को एडिट करें