Loading...
अथर्ववेद > काण्ड 20 > सूक्त 69

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 69/ मन्त्र 3
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६९

    सु॑त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑। सोमा॑सो॒ दध्या॑शिरः ॥

    स्वर सहित पद पाठ

    सु॒त॒ऽपाव्ने॑ । सु॒ता: । इ॒मे । शुच॑य: । य॒न्ति॒ । वी॒तये॑ ॥ सोमा॑स: । दधि॑ऽआशिर: ॥६९.३॥


    स्वर रहित मन्त्र

    सुतपाव्ने सुता इमे शुचयो यन्ति वीतये। सोमासो दध्याशिरः ॥

    स्वर रहित पद पाठ

    सुतऽपाव्ने । सुता: । इमे । शुचय: । यन्ति । वीतये ॥ सोमास: । दधिऽआशिर: ॥६९.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 69; मन्त्र » 3

    टिप्पणीः - ३−(सुतपाव्ने) षु ऐश्वर्ये-क्त। आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। सुत+पा रक्षणे वनिप्। ऐश्वर्याणां रक्षकाय (सुताः) निष्पादिताः (इमे) (शुचयः) पवित्राः (यन्ति) गच्छन्ति। प्राप्नुवन्ति (वीतये) वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु-क्तिन्। भोगाय (सोमासः) तत्त्वरसाः। अमृतरसाः (दध्याशिरः) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। डुधाञ् धारणपोषणयोः-किन्। दधति पुष्णन्तीति दधयः। अपस्पृधेथामानृचु०। पा० ६।१।३६। आङ्+श्रिञ् सेवायां श्रीञ् पाके वा-क्विप्, धातोः शिर् इत्यादेशः। आशीराश्रयणाद्वाश्रपणाद् वा, अथेयमितराशीराशास्तेः-निरु० ६।८। पोषकपदार्थानामाश्रयदातारः परिपक्वकर्तारो वा ॥

    इस भाष्य को एडिट करें
    Top