Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 72/ मन्त्र 2
वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष॑न्त इन्द्र निः॒सृजः॑। यद्ग॒व्यन्ता॒ द्वा जना॒ स्वर्यन्ता॑ स॒मूह॑सि। आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥
स्वर सहित पद पाठवि । त्वा॒ । त॒त॒स्रे॒ । मि॒थु॒ना: । अ॒व॒स्यव॑: । व्र॒जस्य॑ । सा॒ता । गव्य॑स्य । नि॒:ऽसृज॑: । सक्ष॑न्त । इ॒न्द्र॒ । नि॒:ऽसृज॑ ॥ यत् । ग॒व्यन्ता॑ । द्वा । जना॑ । स्व॑: । यन्ता॑ । स॒म्ऽऊह॑सि ॥ आ॒वि: । करि॑क्रत् । वृष॑णम् । स॒चा॒ऽभुव॑म् । वज्र॑म् । इ॒न्द्र॒ । स॒चा॒ऽभुव॑म् ॥७२.२॥
स्वर रहित मन्त्र
वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः। यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि। आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥
स्वर रहित पद पाठवि । त्वा । ततस्रे । मिथुना: । अवस्यव: । व्रजस्य । साता । गव्यस्य । नि:ऽसृज: । सक्षन्त । इन्द्र । नि:ऽसृज ॥ यत् । गव्यन्ता । द्वा । जना । स्व: । यन्ता । सम्ऽऊहसि ॥ आवि: । करिक्रत् । वृषणम् । सचाऽभुवम् । वज्रम् । इन्द्र । सचाऽभुवम् ॥७२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 72; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र आगे है-अथ० २०।७।१ ॥ २−(वि) विविधम् (त्वा) त्वाम्। तव गुणम् (ततस्रे) तसु उपक्षये उत्क्षेपे च-लिट्। इरयो रे। पा० ६।४।७६। इति रेभावः। उत्क्षिप्तवन्तः। विस्तारितवन्तः (मिथुनाः) स्त्रीपुरुषसमूहाः (अवस्यवः) अ० २०।१४।१। रक्षाकामाः (व्रजस्य) व्रज गतौ+घञर्थे क। मार्गस्य (साता) विभक्तेर्डा। सातौ। लाभे (गव्यस्य) गवे पृथिव्यै हितस्य (निःसृजः) सृज विसर्गे-क्विप्। नितरां स्रष्टारो निष्पादयितारः (सक्षन्तः) सक्षतिर्गतिकर्मा-निघ० २।१४। नैरुक्तो धातुः-शतृ। गच्छन्तः (इन्द्र) परमात्मन् (निःसृजः) निरन्तरदातारः (यत्) यतः (गव्यन्ता) गो-क्यच्, शतृ। गां वाणीं विद्यामिच्छन्तौ (द्वा) द्वौ (जना) जनौ। स्त्रीपुरुषौ (स्वः) मुखम् (यन्ता) यन्तौ। प्राप्नुवन्तौ (समूहसि) ऊह वितर्के। सम्यक् चेतयसि (आविः) प्राकट्ये (करिक्रत्) करोतेर्यङ्लुकि शतृ। भृशं कुर्वन् (वृषणम्) बलवन्तम् (सचाभुवम्) षच समवाये सेचने च-क्विप्+भू सत्तायाम्-क्विप्। समवायेन वर्तमानम् (वज्रम्) दण्डगुणम् (इन्द्र) परमात्मन् (सचाभुवम्) सेचनेन वर्धनेन सह वर्तमानम् ॥
इस भाष्य को एडिट करें