Loading...
अथर्ववेद > काण्ड 4 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - गोसमूहः छन्दः - जगती सूक्तम् - गोसमूह सूक्त

    न ता अर्वा॑ रे॒णुक॑काटोऽश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि। उ॑रुगा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥

    स्वर सहित पद पाठ

    न । ता: । अर्वा॑ । रे॒णुक॑ऽकाट: । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒त्रम् । उप॑ । य॒न्ति॒ । ता: । अ॒भि । उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ता: । अनु॑ । गाव॑: । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑न: ॥२१.४॥


    स्वर रहित मन्त्र

    न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि। उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥

    स्वर रहित पद पाठ

    न । ता: । अर्वा । रेणुकऽकाट: । अश्नुते । न । संस्कृतत्रम् । उप । यन्ति । ता: । अभि । उरुऽगायम् । अभयम् । तस्य । ता: । अनु । गाव: । मर्तस्य । वि । चरन्ति । यज्वन: ॥२१.४॥

    अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 4

    टिप्पणीः - ४−(न) निषेधे (ताः) गाः। वाचः। विद्याः (अर्वा) अवद्यावमाधमार्वरेफाः कुत्सिते। उ० ५।५४। इति ऋ गतौ हिंसायां च-वन्। अर्वा, अश्वनाम-निघ० १।१४। अर्वेरणवान्-निरु० १०।३१। निकृष्टप्रतिकृष्टार्वरेफ०। इत्यमरः−२१।५४। ऋच्छति मार्गम्, ऋणोत्यन्यान्। अश्व इव विषयासक्तो हिंसको वा कुत्सितः पुरुषः (रेणुककाटः) रेणु+क+काटः। अजिवृरीभ्यो निच्च। उ० ३।३८। इति री गतिरेषणयोः-नु। इति रेणुः। कटे वर्षावरणयोः-घञ्। कस्य जलस्य काटो वर्षणं सेचनं यस्मात् स ककाटः कूपः। धूलिकूप इव पतनस्वभावः (अश्नुते) प्राप्नोति (संस्कृतत्रम्) संस्कृत+त्रैङ् रक्षणे-क। संस्कृतानां देववाणीनां शोभनविद्यानां रक्षकम् (उपयन्ति) आगच्छन्ति प्राप्नुवन्ति (अभि) आभिमुख्येन (उरुगावम्) अ० २।१२।१। बहुप्रशंसनीयम् (अभयम्) निर्भयं राज्यम् (तस्य) विद्यारक्षकस्य (ताः) (अनु) अनुकूलतया (गावः) विद्याः (मर्तस्य) हसिमृग्रिण्०। उ० ३।८६। इति मृङ् प्राणत्यागे-तन्। मारयति दोषान् स मर्तः। मनुष्यस्य (विचरन्ति) विविधं गच्छन्ति (यज्वनः) म० २। याजकस्य। देवपूजकस्य ॥

    इस भाष्य को एडिट करें
    Top