Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 101/ मन्त्र 1
सूक्त - च॒क॒र्थ॒ । अ॒र॒सम् । वि॒षम् ॥१००.३॥
देवता - ब्रह्मणस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - बलवर्धक सूक्त
आ वृ॑षायस्व श्वसिहि॒ वर्ध॑स्व प्र॒थय॑स्व च। य॑था॒ङ्गं व॑र्धतां॒ शेप॒स्तेन॑ यो॒षित॒मिज्ज॑हि ॥
स्वर सहित पद पाठआ । वृ॒ष॒ऽय॒स्व॒ । श्व॒सि॒हि । वर्ध॑स्व । प्र॒थय॑स्व । च॒ । य॒था॒ऽअ॒ङ्गम् । व॒र्ध॒ता॒म् । शेप॑: । तेन॑ । यो॒षित॑म् । इत् । ज॒हि॒ ॥१०१.१॥
स्वर रहित मन्त्र
आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च। यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि ॥
स्वर रहित पद पाठआ । वृषऽयस्व । श्वसिहि । वर्धस्व । प्रथयस्व । च । यथाऽअङ्गम् । वर्धताम् । शेप: । तेन । योषितम् । इत् । जहि ॥१०१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 101; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(आ) समन्तात् (वृषायस्य) कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति वृषन्−क्यङ्। वृषा इन्द्र इवाचर (श्वसिहि) श्वस प्राणने। प्राणिहि। बलवान् भव (वर्धस्व) बुद्धिं कुरु (प्रथयस्य) विस्तारय प्रजागणान् (च) (यथाङ्गम्) अङ्गान्यनतिक्रम्य। सर्वाङ्गम् (वर्धताम्) वृद्धिं प्राप्नोतु (शेपः) अ० ४।३७।७। शेते वर्तते शरीरे तत् सामर्थ्यम् (तेन) कारणेन (योषितम्) अ० १।१७।१। युष सेवने−इति। सेव्यां नीतिम् (इत्) एव (जहि) हन गतौ। गच्छ ॥
इस भाष्य को एडिट करें