Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 105/ मन्त्र 2
यथा॒ बाणः॒ सुसं॑शितः परा॒पत॑त्याशु॒मत्। ए॒वा त्वं का॑से॒ प्र प॑त पृथि॒व्या अनु॑ सं॒वत॑म् ॥
स्वर सहित पद पाठयथा॑ । बाण॑: । सुऽसं॑शित: । प॒रा॒ऽपत॑ति । आ॒शु॒ऽमत् । ए॒व । त्वम् । का॒से॒ । प्र । प॒त॒ । पृ॒थि॒व्या: । अनु॑ । स॒म्ऽवत॑म् ॥१०५.२॥
स्वर रहित मन्त्र
यथा बाणः सुसंशितः परापतत्याशुमत्। एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥
स्वर रहित पद पाठयथा । बाण: । सुऽसंशित: । पराऽपतति । आशुऽमत् । एव । त्वम् । कासे । प्र । पत । पृथिव्या: । अनु । सम्ऽवतम् ॥१०५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 105; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(बाणः) अकर्तरि च कारके संज्ञायाम्। पा० ३।३।१९। इति वण शब्दे−घञ्। वाणो वाक्−निघ० १।११। शरः। शब्दः (सुसंशितः) शो तनूकरणे−क्त। सुष्ठु सम्यक् तीक्ष्णीकृतः (पृथिव्याः) भूम्याः (संवतम्) अ० ६।२९।३। सम्+वन संभक्तौ−क्विप्, नकारलोपे तुक्। सम्यग् वननीयं सेवनीयं देशम्। अन्यत् पूर्ववत्−म० १ ॥
इस भाष्य को एडिट करें