Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 112/ मन्त्र 3
येभिः॒ पाशैः॒ परि॑वित्तो॒ विब॒द्धोऽङ्गेअ॑ङ्ग॒ आर्पि॑त॒ उत्सि॑तश्च। वि ते मु॑च्यन्तं वि॒मुचो॒ हि सन्ति॑ भ्रूण॒घ्नि पू॑षन्दुरि॒तानि॑ मृक्ष्व ॥
स्वर सहित पद पाठयेभि॑: । पाशै॑: । परि॑ऽवित्त: । विऽब॑ध्द: । अङ्गे॑ऽअङ्गे । आर्पि॑त: । उत्सि॑त: । च॒ । वि । ते । मु॒च्य॒ता॒म्। वि॒ऽमुच॑: । हि । सन्ति॑ । भ्रू॒ण॒ऽघ्नि । पू॒ष॒न् । दु॒:ऽइ॒तानि॑ । मृ॒क्ष्व॒ ॥११२.३॥
स्वर रहित मन्त्र
येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च। वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन्दुरितानि मृक्ष्व ॥
स्वर रहित पद पाठयेभि: । पाशै: । परिऽवित्त: । विऽबध्द: । अङ्गेऽअङ्गे । आर्पित: । उत्सित: । च । वि । ते । मुच्यताम्। विऽमुच: । हि । सन्ति । भ्रूणऽघ्नि । पूषन् । दु:ऽइतानि । मृक्ष्व ॥११२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 112; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(येभिः) यैः (पाशैः) बन्धैः (परिवित्तः) परि+विद ज्ञाने−क्त। परिविण्णः। परिवित्तिः। कृतविवाहस्यानूढज्येष्ठभ्राता (विबद्धः) विविधं बद्धः (अङ्गे अङ्गे) सर्वाङ्गे (आर्पितः) आङ्+ऋ हिंसायाम्, णिचि क्त। आर्ति पीडां प्रापितः (उत्सितः) म० २। अतिशयेन बद्धः (च) (ते) पाशा (विमुच्यन्ताम्) विसृज्यन्ताम्। (विमुचः) सम्पदादिः क्विप्। विमोचनीयाः पाशाः (हि) यस्मात्कारणात् (सन्ति) वर्तन्ते (भ्रूणघ्नि) भ्रूण आशाविशङ्कयोः−घञ्। ब्रह्मभ्रूणवृत्रेषु क्विप्। पा० ३।२।८७। इति भ्रूण+हन−क्विप्। स्त्रीगर्भघातिनि रोगे वर्तमानानि (दुरितानि) कष्टानि (मृक्ष्व) मृजू शौचालङ्कारयोः। शोधय। दुरीकुरु ॥
इस भाष्य को एडिट करें