Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 120/ मन्त्र 2
सूक्त - कौशिक
देवता - अन्तरिक्षम्, पृथिवी, द्यौः, अग्निः
छन्दः - पङ्क्तिः
सूक्तम् - सुकृतलोक सूक्त
भूमि॑र्मा॒तादि॑तिर्नो ज॒नित्रं॒ भ्राता॒न्तरि॑क्षम॒भिश॑स्त्या नः। द्यौर्नः॑ पि॒ता पित्र्या॒च्छं भ॑वाति जा॒मिमृ॒त्वा माव॑ पत्सि लो॒कात् ॥
स्वर सहित पद पाठभूमि॑: । मा॒ता । अदि॑ति: । न॒: । ज॒नित्र॑म् । भ्रता॑ । अ॒न्तरि॑क्षम् । अ॒भिऽश॑स्त्या । न॒: । द्यौ: । न॒: । पि॒ता । पित्र्या॑त् । शम् । भ॒वा॒ति॒ । जा॒मिम् । ऋ॒त्वा । मा । अव॑ । प॒त्सि॒ । लो॒कात् ॥१२०.२॥
स्वर रहित मन्त्र
भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः। द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात् ॥
स्वर रहित पद पाठभूमि: । माता । अदिति: । न: । जनित्रम् । भ्रता । अन्तरिक्षम् । अभिऽशस्त्या । न: । द्यौ: । न: । पिता । पित्र्यात् । शम् । भवाति । जामिम् । ऋत्वा । मा । अव । पत्सि । लोकात् ॥१२०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 120; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(भूमिः) सर्वाधारभूमितुल्या (माता) अ० ५।५।१। जननी (अदितिः) अ० २।२८।४। अविनाशिनी प्रकृतिः (नः) अस्माकम् (जनित्रम्) उत्पत्तिस्थानम् (भ्राता) अ० ४।४।५। भरणशीलः सहोदरः (अन्तरिक्षम्) मध्यवर्तिलोकसदृशः (अभिशस्त्या) पञ्चम्यर्थे तृतीया। अपवादात् (नः) अस्माकम् (द्यौः) प्रकाशमानः सूर्य इव (पिता) जनकः (पित्र्यात्) पितुर्यत्। पा० ४।३।७९। पितृ−यत्। रीङ् ऋतः। पा० ७।४।२७। रीङ्। पितॄणां विज्ञानिनां प्रियात् (शम्) शान्तिकारकः (भवाति) भवेत् (जामिम्) अ० २।७।२। बन्धुवर्गम् (ऋत्वा) प्राप्य (मा अव पत्सि) पद गतौ, माङि लुङि उत्तमैकवचने रूपम्। अवपन्नो मा भूवम् ॥
इस भाष्य को एडिट करें