Loading...
अथर्ववेद > काण्ड 6 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 127/ मन्त्र 1
    सूक्त - भृग्वङ्गिरा देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    वि॑द्र॒धस्य॑ ब॒लास॑स्य॒ लोहि॑तस्य वनस्पते। वि॒सल्प॑कस्योषधे॒ मोच्छि॑षः पिशि॒तं च॒न ॥

    स्वर सहित पद पाठ

    वि॒ऽद्र॒धस्य॑ । ब॒लास॑स्य । लोहि॑तस्य । व॒न॒स्प॒ते॒ । वि॒ऽसल्प॑कस्य । ओ॒ष॒धे॒ । मा । उत् । शि॒ष॒: । पि॒शि॒तम् । च॒न ॥१२७.१॥


    स्वर रहित मन्त्र

    विद्रधस्य बलासस्य लोहितस्य वनस्पते। विसल्पकस्योषधे मोच्छिषः पिशितं चन ॥

    स्वर रहित पद पाठ

    विऽद्रधस्य । बलासस्य । लोहितस्य । वनस्पते । विऽसल्पकस्य । ओषधे । मा । उत् । शिष: । पिशितम् । चन ॥१२७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 127; मन्त्र » 1

    टिप्पणीः - १−(विद्रधस्य) विदं ज्ञानं रध्यति हिनस्तीति, विद् ज्ञाने क्विप्+रध हिंसने पाके च−अच्। हृदयव्रणस्य। विद्रधेः (बलासस्य) अ० ४।९।८। सन्निपातश्लेष्मादिविकारस्य (लोहितस्य) रुहे रश्च लो वा। उ० ३।९४। इति रुह बीजजन्मनि प्रादुर्भावे च−इतन्, रस्य लः। प्रादुर्भावस्य। रुधिरविकारस्य (वनस्पते) वटादिवृक्ष (विसल्पकस्य) सृप सर्पणे−अच्, कन्, रस्य लः। शरीरे विसर्पणशीलस्य विसर्परोगस्य (ओषधेः) (मोच्छिषः) शिष्लृ विशेषणे−लुङ्। मोच्छेषय (पिशितम्) पिश अवयवे−क्त। अवयवम्। अंशम् (चन) किमपि ॥

    इस भाष्य को एडिट करें
    Top