अथर्ववेद - काण्ड 6/ सूक्त 133/ मन्त्र 1
सूक्त - अगस्त्य
देवता - मेखला
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - मेखलाबन्धन सूक्त
य इ॒मां दे॒वो मेख॑लामाब॒बन्ध॒ यः सं॑न॒नाह॒ य उ॑ नो यु॒योज॑। यस्य॑ दे॒वस्य॑ प्र॒शिषा॒ चरा॑मः॒ स पा॒रमि॑च्छा॒त्स उ॑ नो॒ वि मु॑ञ्चात् ॥
स्वर सहित पद पाठय: । इ॒माम् । दे॒व: । मेख॑लाम् । आ॒ऽब॒बन्ध॑ । य: । स॒म्ऽन॒नाह॑ । य: । ऊं॒ इति॑ । न॒: । यु॒योज॑ । यस्य॑ । दे॒वस्य॑ । प्र॒ऽशिषा॑ । चरा॑म: । स: । पा॒रम् । इ॒च्छा॒त् । स: । ऊं॒ इति॑ । न॒: । वि । मु॒ञ्चा॒त् ॥१३३.१॥
स्वर रहित मन्त्र
य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज। यस्य देवस्य प्रशिषा चरामः स पारमिच्छात्स उ नो वि मुञ्चात् ॥
स्वर रहित पद पाठय: । इमाम् । देव: । मेखलाम् । आऽबबन्ध । य: । सम्ऽननाह । य: । ऊं इति । न: । युयोज । यस्य । देवस्य । प्रऽशिषा । चराम: । स: । पारम् । इच्छात् । स: । ऊं इति । न: । वि । मुञ्चात् ॥१३३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 133; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यः) (इमाम्) (देवः) विद्वान्, आचार्यः (मेखलाम्) मीयते प्रक्षिप्यते कायमध्यभागे। डुमिञ् क्षेपे−खलच्। कटिबन्धनम्। कक्ष्याम् (आबबन्ध) आबद्धवान् (यः) (सन्ननाह) णह बन्धने लिट्। सज्जितवान् (यः उ) (नः) अस्मभ्यम् (युयोज) संयोजितवान् (यस्य) (देवस्य) विदुषः (प्रशिषा) उत्तमशासनेन (चरामः) वर्त्तामहे (सः) (पारम्) कर्मणः समाप्तिम् (इच्छात्) इच्छेत् (सः) (उ) (नः) अस्मान् (विमुञ्चात्) कष्टाद् विमोचयेत् ॥
इस भाष्य को एडिट करें