Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 137/ मन्त्र 2
सूक्त - वीतहव्य
देवता - नितत्नीवनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - केशवर्धन सूक्त
अ॒भीशु॑ना॒ मेया॑ आसन्व्या॒मेना॑नु॒मेयाः॑। केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ॥
स्वर सहित पद पाठअ॒भीशु॑ना: । मेया॑: । आ॒स॒न् । वि॒ऽआ॒मेन॑ । अ॒नु॒ऽमेया॑: । केशा॑: । न॒डा:ऽइ॑व । व॒र्ध॒न्ता॒म् । शी॒र्ष्ण: । ते॒ । अ॒सि॒ता: । परि॑ ॥१३७.२॥
स्वर रहित मन्त्र
अभीशुना मेया आसन्व्यामेनानुमेयाः। केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥
स्वर रहित पद पाठअभीशुना: । मेया: । आसन् । विऽआमेन । अनुऽमेया: । केशा: । नडा:ऽइव । वर्धन्ताम् । शीर्ष्ण: । ते । असिता: । परि ॥१३७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 137; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अभीशुना) भृमृशीङ्०। उ० १।७। इति अभि+अशू व्याप्तौ−ड अलोपो दीर्घश्च। अभीशवः, रश्मिनाम−निघ० १।५। अङ्गुलिनाम−२।५। पदनाम−५।३। अभीशवोऽभ्यश्नुवते कर्माणि−निरु० ३।९। अङ्गुल्या (मेयाः) मातव्याः (आसन्) (व्यामेन) वि+अम गतौ−घञ्। प्रसारितभुजद्वयपरिमाणेन (अनुमेयाः) पश्चात् मातव्याः (केशाः) (नडाः) तृणविशेषाः (इव) यथा (वर्धन्ताम्) वर्धमाना भवन्तु (शीर्ष्णः) शिरसः (ते) तव (असिताः) कृष्णवर्णाः (परि) सर्वतः ॥
इस भाष्य को एडिट करें