Loading...
अथर्ववेद > काण्ड 6 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 14/ मन्त्र 1
    सूक्त - बभ्रुपिङ्गल देवता - बलासः छन्दः - अनुष्टुप् सूक्तम् - बलासनाशन सूक्त

    अ॑स्थिस्रं॒सं प॑रुस्रं॒समास्थि॑तं हृदयाम॒यम्। ब॒लासं॒ सर्वं॑ नाशयाङ्गे॒ष्ठा यश्च॒ पर्व॑सु ॥

    स्वर सहित पद पाठ

    अ॒स्थि॒ऽस्रं॒सम् । प॒रु॒:ऽस्रं॒सम् । आऽस्थि॑तम् । हृ॒द॒य॒ऽआ॒म॒यम् । ब॒लास॑म् । सर्व॑म् । ना॒श॒य॒ । अ॒ङ्गे॒ऽस्था: । य: । च॒ । पर्व॑ऽसु ॥१४.१॥


    स्वर रहित मन्त्र

    अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम्। बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु ॥

    स्वर रहित पद पाठ

    अस्थिऽस्रंसम् । परु:ऽस्रंसम् । आऽस्थितम् । हृदयऽआमयम् । बलासम् । सर्वम् । नाशय । अङ्गेऽस्था: । य: । च । पर्वऽसु ॥१४.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 14; मन्त्र » 1

    टिप्पणीः - १−(अस्थिस्रंसम्) स्रंसु पतने−पचाद्यच्। अस्थ्नां स्रंसः स्रंसनं पतनं यस्मात् तं रोगम् (परुस्रंसम्) परुषां पर्वणां शरीरसन्धीनां पतनं यस्मात् तम् (आस्थितम्) समन्ताद् व्याप्य स्थितम् (हृदयामयम्) हृद्रोगम् (बलासम्) अ० ४।९।८। बलस्य असितारं कासकफादिक्षयरोगम् (सर्वम्) निःशेषम् (नाशय) उन्मूलय (अङ्गेष्ठाः) अङ्गे+ष्ठा−विच्। हस्तपादाद्यङ्गेषु स्थितः (यः) (बलासः) (च) (पर्वसु) शरीरसन्धिषु वर्तते ॥

    इस भाष्य को एडिट करें
    Top