Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 140/ मन्त्र 1
सूक्त - अथर्वा
देवता - ब्रह्मणस्पतिः
छन्दः - उरोबृहती
सूक्तम् - सुमङ्गलदन्त सूक्त
यौ व्या॒घ्रावव॑रूढौ॒ जिघ॑त्सतः पि॒तरं॑ मा॒तरं॑ च। तौ दन्तौ॑ ब्रह्मणस्पते शि॒वौ कृ॑णु जातवेदः ॥
स्वर सहित पद पाठयौ । व्या॒घ्रौ । अव॑ऽरूढौ । जिघ॑त्सत: । पि॒तर॑म् । मा॒तर॑म् । च॒ । तौ । दन्तौ॑ । ब्र॒ह्म॒ण॒: । प॒ते॒ । शि॒वौ । कृ॒णु॒ । जा॒त॒ऽवे॒द॒: ॥१४०.१॥
स्वर रहित मन्त्र
यौ व्याघ्राववरूढौ जिघत्सतः पितरं मातरं च। तौ दन्तौ ब्रह्मणस्पते शिवौ कृणु जातवेदः ॥
स्वर रहित पद पाठयौ । व्याघ्रौ । अवऽरूढौ । जिघत्सत: । पितरम् । मातरम् । च । तौ । दन्तौ । ब्रह्मण: । पते । शिवौ । कृणु । जातऽवेद: ॥१४०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 140; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यौ) (व्याघ्रौ) अ० ४।३।१। सिंहो व्याघ्र इति पूजायाम्−निरु० ३।१८। व्याघ्रवद्बलवन्तौ (अवरूढौ) प्रादुर्भूतौ (जिघत्सतः) अद भक्षणे सन्। लुङ्सनोर्घस्लृ। पा० २।४।३७। इति घस्लृ। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तः। अत्तुं कर्तितुमिच्छतः (पितरम्) (मातरम्) (च) (तौ) (दन्तौ) अ० ४।३।६। उपरिनीचस्थदन्तगणौ (ब्रह्मणः) अन्नस्य−निघ० २।७। (पते) स्वामिन् (शिवौ) सुखकरौ (कृणु) कुरु (जातवेदः) हे जातानां वेदित गृहस्थ ॥
इस भाष्य को एडिट करें