Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 26/ मन्त्र 3
अ॒न्यत्रा॒स्मन्न्युच्यतु सहस्रा॒क्षो अम॑र्त्यः। यं द्वेषा॑म॒ तमृ॑च्छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥
स्वर सहित पद पाठअ॒न्यत्र॑ । अ॒स्मत् । नि । उ॒च्य॒तु॒ । स॒ह॒स्र॒ऽअ॒क्ष: । अम॑र्त्य: । यम् । द्वेषा॑म् । तम् । ऋ॒च्छ॒तु॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्म: । तम् । इत् । ज॒हि॒ ॥२६.३॥
स्वर रहित मन्त्र
अन्यत्रास्मन्न्युच्यतु सहस्राक्षो अमर्त्यः। यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि ॥
स्वर रहित पद पाठअन्यत्र । अस्मत् । नि । उच्यतु । सहस्रऽअक्ष: । अमर्त्य: । यम् । द्वेषाम् । तम् । ऋच्छतु । यम् । ऊं इति । द्विष्म: । तम् । इत् । जहि ॥२६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 26; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अन्यत्र) पापात्मसु (अस्मत्) अस्मत्तः। सुकर्मभ्यः (नि) नितराम् (उच्यतु) उच समवाये। गच्छतु (सहस्राक्षः) अ० ३।११।३। सहस्रेषु बहुषु दोषेषु अक्षि दृष्टिर्यस्य सः (अमर्त्यः) तस्मै हितम्। पा० ५।१।५। इति यत्। मर्त्येभ्यो मनुष्येभ्योऽहितः (यम्) विघ्नम् (द्वेषाम) अप्रीतिं करवाम (तम्) (ऋच्छतु) प्राप्नोतु (यम्) (उ) अवधारणे (द्विष्मः) अप्रीतिं कुर्मः (तम्) (इत्) एव (जहि) नाशय ॥
इस भाष्य को एडिट करें