Loading...
अथर्ववेद > काण्ड 6 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 27/ मन्त्र 3
    सूक्त - भृगु देवता - यमः, निर्ऋतिः छन्दः - जगती सूक्तम् - अरिष्टक्षयण सूक्त

    हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्री प॒दं कृ॑णुते अग्नि॒धाने॑। शि॒वो गोभ्य॑ उ॒त पुरु॑षेभ्यो नो अस्तु॒ मा नो॑ देवा इ॒ह हिं॑सीत्क॒पोतः॑ ॥

    स्वर सहित पद पाठ

    हे॒ति: । प॒क्षिणी॑ । न । द॒भा॒ति॒ । अ॒स्मान् । आ॒ष्ट्री इति॑ । प॒दम् । कृ॒णु॒ते॒। अ॒ग्नि॒ऽधाने॑ । शि॒व: । गोभ्य॑: । उ॒त । पुरु॑षेभ्य: । न॒: । अ॒स्तु॒ । मा । न॒: । दे॒वा॒: । इ॒ह । हिं॒सी॒त् । क॒पोत॑: ॥२७.३॥


    स्वर रहित मन्त्र

    हेतिः पक्षिणी न दभात्यस्मानाष्ट्री पदं कृणुते अग्निधाने। शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत्कपोतः ॥

    स्वर रहित पद पाठ

    हेति: । पक्षिणी । न । दभाति । अस्मान् । आष्ट्री इति । पदम् । कृणुते। अग्निऽधाने । शिव: । गोभ्य: । उत । पुरुषेभ्य: । न: । अस्तु । मा । न: । देवा: । इह । हिंसीत् । कपोत: ॥२७.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 27; मन्त्र » 3

    टिप्पणीः - ३−(हेतिः) हवनशक्ति (पक्षिणी) पक्षपातयुक्ता (नः) निषेधे (दभाति) लेटि रूपम्। हिनस्तु (अस्मान्) सदस्यान् (आष्ट्री) भ्रस्जिगमिनमि०। उ० ४।१६०। इति अशू व्याप्तौ−ष्ट्रन् वृद्धिश्च, ङीप्। सुपां सुलुक्० पा० ७।१।३९। इति सप्तम्याः पूर्वसवर्णः, प्रगृह्य च। आष्ट्र्यां व्याप्तायां सभायाम् (पदम्) अधिकारम् (कृणुते) करोति (अग्निधाने) अग्नीनां विदुषां स्थाने (शिवः) सुखकरः (गोभ्यः) गवादिपशुभ्यः (उत) अपि च (पुरुषेभ्यः) मनुष्यादिप्राणिभ्यः (नः) अस्माकम् (अस्तु) (नः) अस्मान् (इह) अस्यां सभायाम् (मा हिंसीत्) न हन्तु (कपोतः) म० १। स्तुत्यो विद्वान् ॥

    इस भाष्य को एडिट करें
    Top