Loading...
अथर्ववेद > काण्ड 6 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 29/ मन्त्र 3
    सूक्त - भृगु देवता - यमः, निर्ऋतिः छन्दः - त्र्यवसाना सप्तदा विराडष्टिः सूक्तम् - अरिष्टक्षयण सूक्त

    अ॑वैरह॒त्याये॒दमा प॑पत्यात्सुवी॒रता॑या इ॒दमा स॑सद्यात्। परा॑ङे॒व परा॑ वद॒ परा॑ची॒मनु॑ सं॒वत॑म्। यथा॑ य॒मस्य॑ त्वा गृ॒हेऽर॒सं प्र॑ति॒चाक॑शाना॒भूकं॑ प्रति॒चाक॑शान् ॥

    स्वर सहित पद पाठ

    अ॒वै॒र॒ऽह॒त्याय॑ । इ॒दम्। आ । प॒प॒त्या॒त् । सु॒ऽवी॒रता॑यै । इ॒दम् । आ । स॒स॒द्या॒त् । परा॑ङ् । ए॒व । परा॑ । व॒द॒। परा॑चीम् । अनु॑ । स॒म्ऽवत॑म् । यथा॑ । य॒मस्य॑ । त्वा॒ । गृ॒हे । अ॒र॒सम् । प्र॒ति॒ऽचाक॑शान् । आ॒भूक॑म् । प्र॒ति॒ऽचाक॑शान् ॥२९.३॥


    स्वर रहित मन्त्र

    अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्। पराङेव परा वद पराचीमनु संवतम्। यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशानाभूकं प्रतिचाकशान् ॥

    स्वर रहित पद पाठ

    अवैरऽहत्याय । इदम्। आ । पपत्यात् । सुऽवीरतायै । इदम् । आ । ससद्यात् । पराङ् । एव । परा । वद। पराचीम् । अनु । सम्ऽवतम् । यथा । यमस्य । त्वा । गृहे । अरसम् । प्रतिऽचाकशान् । आभूकम् । प्रतिऽचाकशान् ॥२९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 29; मन्त्र » 3

    टिप्पणीः - ३−(अवैरहत्याय) वीर−अण् समूहार्थे+हन क्यप्। वीराणाम् अहननाय रक्षणाय (इदम्) अस्माकं गृहम् (आ) आगत्य (पपत्यात्) पत ऐश्वर्ये। पत्यताम्। समर्थो भवतु (सुवीरतायै) समूहार्थे तल्। श्रेष्ठवीराणां हिताय (आ) आगत्य (ससद्यात्) सीदतु स कपोतः (पराङ्) अधोमुखः सन् (एव) अवधारणे (परा) दूरे (वेद) कथय, हे उलूक शत्रो (पराचीम्) परा+अञ्चु गतौ−क्विन्, ङीप्। अधोगताम् (अनु) अनुलक्ष्य (संवतम्) उपसर्गाच्छन्दसि०। पा० ५।१।११८। इति गत्यर्थे वतिः। संगतिम् (यथा) यस्मात्कारणात् (यमस्य) न्यायिनः पुरुषस्य (त्वा) त्वाम्। उलूकम् (गृहे) न्यायालये (अरसम्) निर्बलम् (प्रतिचाकशान्) काशृ दीप्तौ, यङ्लुकि−लेट्। अवचाकशत् पश्यतिकर्मा−निघ० –३।११। जनाः प्रतिपश्येयुः (आभूकम्) सृवृभू०। उ० ३।४१। इति आङ् ईषदर्थे+भू−कक्। असमर्थम् (प्रतिचाकशान्) प्रत्यक्षं पश्येयुः ॥

    इस भाष्य को एडिट करें
    Top