Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 3/ मन्त्र 2
सूक्त - अथर्वा
देवता - द्यावापथिवी, ग्रावा, सोमः, सरस्वती, अग्निः
छन्दः - जगती
सूक्तम् - आत्मगोपन सूक्त
पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः। पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ॥
स्वर सहित पद पाठपा॒ताम् ।न॒: । द्यावा॑पृथि॒वी इति॑ । अ॒भिष्ट॑ये । पातु॑ । ग्रावा॑ । पातु॑ । सोम॑: । न॒: । अंह॑स: । पातु॑ । न॒: । दे॒वी । सु॒ऽभगा॑ । सर॑स्वती । पातु॑ । अ॒ग्नि: । शि॒वा: । ये । अ॒स्य॒ । पा॒यव॑: ॥३.२॥
स्वर रहित मन्त्र
पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः। पातु नो देवी सुभगा सरस्वती पात्वग्निः शिवा ये अस्य पायवः ॥
स्वर रहित पद पाठपाताम् ।न: । द्यावापृथिवी इति । अभिष्टये । पातु । ग्रावा । पातु । सोम: । न: । अंहस: । पातु । न: । देवी । सुऽभगा । सरस्वती । पातु । अग्नि: । शिवा: । ये । अस्य । पायव: ॥३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 3; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(पाताम्) रक्षताम् (नः) अस्मान् (द्यावापृथिवी) सूर्यभूमी (अभिष्टये) अ० १।६।१। पररूपम्। अभीष्टसिद्धये (पातु) रक्षतु (ग्रावा) अ० ३।१०।५। मेघः−निघ० १।१०। (पातु) (सोमः) जलम् (नः) (अंहसः) अ० २।४।३। कष्टात् (पातु) (नः) (देवी) व्यवहारिणी (सुभगा) शोभनानि भगानि धनानि यस्याः सा सुष्ठ्वैश्वर्यप्रदा (सरस्वती) विज्ञानवती वेदविद्या (पातु) (अग्निः) अग्निविद्या (शिवाः) सुखकराः (ये) (अस्य) अग्नेः (पायवः) कृवापा०। उ० १।१। इति पा रक्षणेण् युक् च। रक्षका गुणाः ॥
इस भाष्य को एडिट करें